पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8:2 ३२ सटीकामरकोशस्य [धीवर्ग: तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ॥ तिक्तोऽम्लश्च रसाः पुंसि तदत्सु पडमी त्रिषु ॥९॥ विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।। आमोदः सोऽतिनिहारी वाच्यलिङ्गत्वमागुणात् ॥ १०॥ समाकर्षी तु निर्हारी सुरभिर्माणतर्पणः ॥ इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ।। ११ ॥ पूतिगन्धिस्तु दुर्गन्धो विखं स्यादामगन्धि यत् ।। शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः॥ १२ ॥ राधाः षडपि रसा उच्यन्ते । तत्र तुवरो हरीतक्यादौ प्रसिद्धः । मधुरो जलादौ प्रसिद्धः । लवणः सैन्धवादी प्रसिद्धः । कटुमरीचादौ प्रसिद्धः । एवं तिक्तो निम्बादौ । अम्लस्तित्तिज्यादौ "अम्बं"। रस्यन्ते आस्वाद्यन्ते इति रसाः । कर्मणि पञ् । अमी तुवराधाः षडपि रसमात्रे वर्तमानाः पुंसि । तद्वत्सु रसवत्सु वर्तमानास्त्रिषु वाच्यलिङ्गा इत्यर्थः । "तुवरकषायो नपुंसकावपि अस्त्रीत्युक्तत्वात् " ॥ ९ ॥ विमर्दोत्थे संघर्षणादिनोत्पने जनमनोहरे गन्धे परिमल इत्येकम् । विमर्दग्रहणेन जातिपनादेनिरासः । योऽतिनिहर्हारी अत्य- न्तसमाकर्षी स गन्ध आमोद उच्यते । “कस्तूरिकायामामोदः कपूरे मुखवा- सनः । बकुले स्यात्परिमलश्चम्पके सुरभिस्तथा" इति शब्दार्णवः । एकम् । इतः पर आगुणाद्गुणाः शुक्लादय इति वक्ष्यमाणाद्गुणशब्दात्याक् वायलिनत्वं अभिधेयानुसारेण त्रिलिङ्गत्वम् ॥ १० ॥ समाकर्षी निर्हारी द्वे दूरनिपातिनो गन्धद्रव्यस्य । निर्हरत्यवश्यं मनो निर्हारी । सुरभिः घ्राणतर्पणः इष्टगन्धः सुगन्धिः चत्वारि शोभनगन्धयुक्तस्य । शोभनो गन्धोऽस्य सुगन्धिः । आमोदी मुखवा- सनः इति द्वे यन्मुखं वासयति तस्य ताम्बूलादेः ॥ ११ ॥ पूतिगन्धिः दुर्गन्धः द्वे अनिष्टगन्धयुक्तस्य । पूतिर्दुष्टः गन्धो यस्य सः । यदामगन्धि तहिलं एक अपकमांसादिगन्धस्य । आमोऽपकमलस्तस्येव गन्धो यस्य तत् । “उपमाना" इतीत् । शुक्लः शुभ्रः शुचिः श्वेतः विशदः श्येतः पाण्डः ॥ १२ ॥ अवदातः सितः गौरः अवलक्षः “वलक्षोऽपि" "वष्टिभागुरिः" इत्यनेनाल्लोपपक्षे । धवलः अर्जुनः हरिणः पाण्डुरः। “नगपांसुपाण्डुभ्यश्च" इति रः। पाण्डुःषोडशनामानि शुक्लस्य । तत्रार्जुनान्तानि त्रयोदश नामानि शुक्लस्य । हरिणादीनि त्रीणि पीत- Dighized by Google