सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10-13. सटीकामरकोशस्य [ अव्ययवर्गः युक्ते द्वे साप्रतं स्थानेऽभीक्ष्णं शश्वदनारते || अभावे नानो नापि मास्म मार्ल च वारणे ॥ ११ ॥ पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाऽअसा दयम् || प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥ समन्ततस्तु परितः सर्वतो विष्वगित्यपि || अकामानुमतौ काममसूयोपगमेऽस्तु च || १३ || । समत॑ स्थाने द्वयं युक्ते । यथा । स्वयं छेत्तुमसांप्रतम् । न युक्तमित्यर्थः । "क्रमशो वच्मि सांप्रतमिति वा " । स्थाने हृषीकेश तव प्रकीर्त्या | अभीक्ष्णं शश्वत् द्वयं अनारते अजसे । "अभीक्ष्णमुष्णैरपि तस्य सोष्मणः । शश्व- त्कालः” । नहि अ नो न चत्वारि अभावे । यथा । “नहि खात्मारामं विष- ममृगतृष्णा अमयति । अ राजदैविकं नष्टम् | नो चक्री किं कुलालः । न मे किंचन दसति " | "अ स्यादभावे खल्पार्थे" इति विश्वः । मास मा अलं श्रयं वारणे । यथा | मास कारिदं पुत्र | मा कुरु । अलं महीपाल तब श्रमेण || ११ || चेत् यदि द्वयं पक्षान्तरे | यथा । “सत्यं चेतपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् " | अद्धा अजसा द्वे तत्वार्थे । “यदि लैजं देवी यमनिरतदेहार्घघटनादवैति त्यामद्धा । अञ्जसेति रुरुधुः कुचग्रहै: " प्रादुः आविः द्वयं प्राकाश्ये स्पृष्टत्वे । यथा । प्रादुरासीत् । “आविर्बभूव” । ओं एवं परमं त्रयं मते अङ्गीकारे । यथा । “ओमित्युक्तवतोऽथ शार्ङ्गिणः । एवं यदाह भगवान् | परममित्युक्त्वा" । ओमित्यनुमते प्रोक्तं प्रवणे चाप्युपक्रमे इति विश्वः । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे" इति च ॥ १२ ॥ समन्ततः परितः सर्वतः विष्वक् चत्वारि सर्वत इत्यर्थे । “समन्ततो वर्षति मेघः । आयान्ति परितः श्रियः । सर्वतो वाति पवनः | विष्वक् पतन्ति किरणा: " । अका- मानुमतौ अनिच्छयानुमतौ काममित्येकम् । “ त्वं हनिष्यसि चेस्कामम् | कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने” । “कामं प्रकामेऽनुमसाबसूयानुगमेऽपि म्" इति हैमविश्वप्रकाशौ । असूयापूर्वकस्वीकारे अस्त्वित्येकम् | यथा । “तथा- विधस्तावदशेषमस्तु नः ” । चकारात्काममित्यपि । “अस्तु स्वादभ्यनुज्ञानेऽस् माङ्गीकारयोरपि " इति मेदिनी ॥ १३ ॥ नन्वित्येकं विरोधोक्तौ । “यथा ननु Digitized by Google