254-255. ३४८ सटीकामरकोशस्य [ नानार्थवर्ग: ऊर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् || स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल ॥ २५३ ॥ निषेधवाक्यालङ्कारजिज्ञासानुनये खलु || समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ २५४ ॥ नाममाकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि || तिरोऽन्तर्धी तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५५ ॥ अहहेत्यद्भुते खेदे हि हेताववधारणे ॥ इति नानार्थवर्गः ॥३॥ इखादिरिति भेदाभ द्विरुक्तिः । विस्तारेऽङ्गीकृतौ च ऊरर्यादित्रयम् । यथा ऊररी करोतीत्यादि । स्वः स्वर्गे यथा | स्वर्णयां स्वाति नारदः । परे इति लोकविशेषणम् । परे लोके यथा । “स्वर्गतस्य क्रिया कार्या पुत्रैः परमभक्तितः” । “खः स्वर्गपरलोकयोः" इति विश्वः । वार्तायां यथा । जघान कंसं किल वासुदेवः । संभाव्यं संभावनीयम् । तत्र यथा । गुरून्किलाविशेवे शिष्यः । “किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः” इति विश्वः । किल संभाव्यवार्तयोः । “हेस्वरुच्योरलोके च" इति हैमः || २५३|| निषेधे खलु यथा । खलु रुदित्वा | वाक्यालङ्कारे वाक्यभूषायाम् । एतत्खल्वाहः । जिज्ञासायां गथा । खलु जानासि | अनुनये यथा । देहि खलु वाचकम् । “खलु स्याद्वा- क्यभूषायां जिज्ञासायां च सान्त्वने ॥ वीप्सामाननिषेधेषु पूरणे पदवाक्ययोः" इति मेदिनी | समीपादिपञ्चकेऽभितः । समीपे यथा । वाराणसीमभितः भागीरथी । उभयत इत्युभयार्थे यथा । अभितः कुरु चामरौ । शीघ्रार्थे यथा । अमितोऽभीष्व । साकल्ये यथा । अभितो बनदाहः | अभिमुखे गया । अभितो हिंस्रको इन्ति मामेव परिधावति ॥२५४|| नानि प्राकाश्ये च प्रादुः । नाझि यथा | प्रादुरासीचक्रपाणि: । प्राकाश्ये यथा । प्रादुर्बुद्धिर्भविष्यति । अन्योन्यार्थे मिथो यथा | वासिष्ठकौण्डिन्यमैत्रावरुणानां मियो न विवाहः । रहसि मिथो गया । मियो मन्त्रयते । “मिथोऽन्योन्यं मियो रहः” इति विश्वः । अन्तर्धाने तिर्यगर्ये च तिरः । अन्तर्धाने यथा । तिरोभूयास्ते । तिर्यगर्ये यथा तिरोबर्तते चन्द्रः | विषादाद्यर्थत्रये हाकारः | विषादे यथा । हा रमणीयो गतः कालः । शुधि शोके । यथा । हा राम वर्न गतोऽसि । अर्ती पीडायां यथा । हा हतोऽसीति । "कुत्सार्थे च हा शब्दः" ॥ २५५ ॥ अद्भुते गया । अहह बुद्धिप्रकर्षो राज्ञः । खेदे यया । अहह नीतो पूतेन गया Diglized by Google 1
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३६८
दिखावट