201-205 ३३४ सटीकामरकोशय [ नानार्थवर्ग: और्वानलेsपि पातालं चैलं वस्त्रेऽघमे त्रिषु || २०१ ॥ कुकूलं शङ्कुभिः कीर्णे वभ्रे ना तु तुषानले ॥ निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्त्रयोः || २०२ ॥ पर्यासिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु || प्रवालमडरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ॥ २०३ ।। करालो दन्तरे तुक्रे चारौ दक्षे च पेशलः ।। मूर्खेऽर्भकेsपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०४ ॥ इति लान्ताः ॥ दवदावौ वनारण्यवही जन्महरौ भवौ || मन्त्री सहायः सचिव पतिशाखिनरा धवाः । २०५ ।। अवयः शैलमेषार्का आज्ञांहानाध्वरा हवाः || इति रुद्रः । और्वानले वाडवाग़ौ । “विवरे पातालम् ” । “पातालं नागलोके स्याद्विवरे वाडवानले" । वसे चैलं क्लीर्ष अघमे त्रिषु | स्त्रीत्वे तु चैली । “चेलमि- त्यपि पाठः” ॥ २०१ ॥ शङ्कुभि: कीर्णे कीलैर्व्याते श्रभ्रे गर्ने कुकूलम् । तुषामौ कुकूलः । निर्णीते निमिते यथा । केवलं मूर्खः । एकसिन्यथा । केवलोऽयं व्रजति । कृत्ले यथा । केवला भिक्षयः । खीलिङ्गे केवली । “केवलः कुहने पुमान्” इति मेदिनी ॥ २०२ || पर्याप्तिः सामर्थ्यम् । शिक्षिते कुशलं त्रिषु । यथा कुशला फुलवधूः । “प्रवालोऽस्त्री किसलयं वीणादण्डे च विद्रुमे " इति मेदिनी | स्थूलं पीवरेऽपि त्रिषु । “स्थूलं कूटेऽथ निष्प्रज्ञे पीवरे चान्यलिङ्गके " इति मेदिनी || २०३|| दन्तुरे उभतदन्तयुक्ते । यथा दंष्ट्राकरालः । तुङ्गे उन्मते । “करालो दन्तुरे तुङ्गे भीषणे चाभिधेयवत् । स सर्जरसतैले ना क्ली कृष्णकुठेरके " इति मेदिनी । चारुदक्षयोः पेशलः । “बालोऽशेऽश्वेमपुच्छयोः । शिक्षौ हीबेरकचयोः” इति हैमः । सतृष्णः साकाङ्क्षः ॥ २०४।। इति लान्ताः ॥ अथ वान्तानाह। वनं काननम् । अरण्यवह्निः वनाग्निः । तत्र वान्तौ दवदाषौ । “भवः क्षेमे च संसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी । मन्त्री प्रधानम् | सहायः सखा एतयोरर्थे सचिबशब्दः । पतिर्भर्ता । शाखी वृक्षभेदः। नरो मनुष्यः एते धवाः । “धनो धूर्ते नरे पतौ । द्रुमेदे” इति हैमः || २०५|| "अविर्नाथे रवौ मेषे शैले सूषिकक- म्वले" इति मेदिनी । आज्ञादयत्रयो हवसंज्ञाः । आहानं हूतिः । अध्वरो यज्ञः । · Digtized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३५२
दिखावट