३] तृतीयं काण्डम्. गह्यहीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ॥ आत्मवाननपेतोर्थ्यादर्थ्यो पुण्यं तु चार्वपि ॥ १५९ ।। रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि ॥ नाम्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते || १६० ।। इति यान्ताः ।। निवहावसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ || गुरू गीष्पतिपित्राथो द्वापरौ युगसंशयौ ॥ १६१ ।। प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ॥ ३२३ 158-161 राद्वचनार्हेपि वक्तव्यशब्दः । “वक्तव्यं कुत्सितेऽहीने बचनार्हे च वाच्यवत्" इति मेदिनी । अहीनस्थाने अधीन इति कुत्रचित्पाठो दृश्यते । सज्जः सोपकरणः । निरामयो नीरोगः । उमौ कल्यौ । कलासु साधुः कल्यः | उषस्यपि कल्यम् । “ कल्यं प्रभाते क्लीगं स्यात्फल्यो वाक्थुतिवर्जिते । सअनीरोगदक्षेषु कल्या- णवचनेऽपि च । उपायवचनेऽपि स्यात्" इति मेदिनी । आत्मवान् धीमान् । अर्थापोऽनपेतः अपगतो न भवति स चार्थ्य: “अर्ध्यः संप्रार्थ्ये न्याय्यं विज्ञयोः" इति हैमः । चारु सुन्दरं अपिशब्दात्सुकृतधर्मयो: “पावने च " पुण्यम् । “पुण्यं त्रिषु मनोशे स्यात्लीवं सुकृतधर्मयोः” इति विश्वः ॥ १५९ ॥ प्रशस्तं रूपं यस्य तस्मिन् | “रूपदाइतप्रशंसयोर्यप्” इति सूत्रेण साधुः । अपि- शब्दात् । “रूप्यं स्यादाहतस्वर्णरजते रजतेऽपि च । रम्ये प्रशस्तरूपे तु वाष्यवत्” इति विश्वः । अपिञ्चब्दादातर्यपि वदान्यः । न्याय्ये उचितेऽपिश- ब्दावलम्ने च । " न्याय्यावलमयोर्मध्यमन्तरे चाधमे त्रिषु" इति रमसः । सोमदैवते यथा । सोमबन्द्रो दैवतमस्य सौम्य हविः । “सौम्यो ज्ञे ना त्रिष्वनुप्रे मनोशे सोमदैवते " इति मेदिनी ॥ १६० ॥ "सर्वशभिषजौ बैद्यौ कुल्या कुलबधूः सरित् । फलकल्याणयोर्मव्यं योग्यं सांप्रतिके त्रिषु ॥ १ ॥ क्रियाचारातिक्रमेऽपि जलाधारेऽपि चाशयः ॥ दैत्याचार्येऽपि घिष्ण्यो ना कषायः सुरभावपि ॥ २ ॥ चन्द्रोदये वितानेऽपि स्यादानायोऽन्वये श्रुतौ ॥ इदं साथै लोकद्वयं फुत्रचित्पुस्तके भूलेऽपि दृश्यते ॥ इति यान्ताः ॥ अथ रान्तानाह | निवहो वृन्दः । अवसरः प्रस्तावः उमौ बारौ । वार: सूर्यादिदिवसे बारोऽवसरवृन्दयोरिति । प्रस्तरो दर्भमुष्टिर्दर्भशय्या वा । अध्वरः क्रतुरूमौ संस्तरौ । आयशब्दावेदशास्त्राध्यापकब्ध गुरुः ॥ १६१ ।। भेदो बिशेषो यथा । . Digitized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४१
दिखावट