44-45 सटीकामरकोशस्य [ नानार्थवर्ग: भ्रूणोऽर्भके स्लैणगर्ने बाणो बलिसुते शरे ॥ कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः ॥ ४५ ॥ पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ मौर्या द्रव्याश्रिते सत्त्वशौर्यसंध्यादिके गुणः ॥ ४६ ।। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः || वर्णो दिजादौ शुक्कादौ स्तुतौ वर्णं तु वाक्षरे ॥ ४७ ॥ अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु || स्थाणुः शर्वोऽप्यय द्रोणः कार्केऽप्याजो रखे रणः ॥ ४८ ॥ ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाघिपे त्रिषु ॥ २९८ अयं णः सौ गर्भव तसिन् बाले च भ्रूणः । बलिपुत्रे शरेच बाणः । “बाणः स्याद्गोतने दैत्यभेदे केवलकाण्डयोः” इति मेदिनी । अतिसूक्ष्मवस्तुनि धान्यांशे व कणः । प्रमथे रुद्रानुचरे गणः ॥ ४५ ॥ धूतमक्षादिभिः क्रीडा । आदिना मेषकुक्कुटादियुद्धादिकं तत्र उत्सृष्टे न्यस्तार्थे । भृतौ बेतने मूल्ये विक्रेयवस्तुद्रव्ये धने काकिणीचतुष्टये च पणः । “अपिशब्दात् ग्लहे कथ्य- शाकादिकायां च " । तदुक्तं घरण्याम् । “पणो माने बराटानां मूल्ये कार्पा- पणे धने । द्यूते विक्रय्यशाकादौ बद्धमुष्टौ ग्लहे भृतौ” इति । मौर्ष्या ज्यामां द्रष्याश्रिते रसगन्धादौ । आदिशब्दस्य प्रत्येकं संबन्धात्सत्वरजआदौ शौर्य- चातुर्यादौ संधिविग्रहादौ इन्द्रिये अदेङित्युक्ते च गुणः । “गुणो मौर्व्यामप्र- धाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादितत्त्वादिसंध्याद्यावृत्तिरज्जुषु । शुक्लादावपि वव्यां च" इति मेदिनी ॥ ४६ ॥ निर्व्यापारस्थिती तूष्णीमध:- स्थाने कालविशेषे मुहूर्तस्य द्वादशे भागे उत्सवे पुत्रजन्मादौ क्षणः । “पर्वणि च" । विप्रक्षत्रियादौ शुक्लपीतादौ स्तुतौ स्तवे च वर्णः | अक्षरे वर्षे वा क्लीचे पुंसि चेत्यर्थः । “वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न त्रियां भेदरूपाक्षरविलेपने" इति मेदिनी ॥४७॥ “वर्णमेदे कपिले" । अपिशब्दात्सूर्यसारथौ । “अव्यक्तरागे संध्यारागे थ" || सोऽरुणशब्दः । "अपिशब्दात् " स्तम्भादौ स्युषि च स्थाणुः । "अपिशब्दात्" अन्य- स्थान: पितरि परिमाणविशेषे च द्रोणः । आजौ युद्धे रखे शब्दे । काकेsपि च रखे रण इत्यपि पाठान्तरम् ॥ ४८ ॥ श्रेष्ठो मुख्यः । " ग्राम- Digitized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१६
दिखावट