सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· 5 2 20-24 सटीकामरकोशस्य [संकीर्णवर्गः विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥ संक्षेपणं समसनं पर्यवस्था विरोधनम् ॥ परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥ २१ ॥ १८२ विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥ संवाहनं मर्दनं स्याविनाशः स्याददर्शनम् ॥ २२ ॥ संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ।। नीवाकस्तु प्रयामः स्यात्सन्निधिंः सन्निकर्षणम् ॥ २३ ॥ लवोsभिलावो लवने निष्पावः पवने पवः || प्रस्तावः स्यादवसरस्सरः सूत्रवेष्टनम् ॥ २४ ॥ प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ॥ व विश्लेषे विधुरं किकले त्रिपु” इति मेदिनी" | अभिप्रायः छन्दः आशयः श्रीणि " अभिप्रायस्य " । छन्दोऽदन्तः ॥ २० ॥ संक्षेपणं समसन द्वे अबि- स्वारस्य । पर्यवस्था विरोधनं द्वे विरोधस्य । परिसर्या परीसारः "परिसार इति शब्दार्थकोशः" द्वे परितः सरणस्य | आस्या आसना स्थिति: त्रीणि “आसनस्य " ॥ २१ ॥ विस्तारः विग्रहः व्यासः त्रयं विस्तृतेः । विस्तारः शब्दसंबन्धी चेद्धिस्तर इत्येकम् । संवाहनं मर्दनं द्वे अङ्गमर्दनस्य | यथा पाद- संवाहनम् । विनाशः अदर्शनं द्वे तिरोधानस्य ॥ २२ ॥ संस्तवः परिचयः द्वयं परिचितौ । प्रसरः बिसर्पर्ण द्वे "त्रणादिप्रसरणस्य" | नीवाकः प्रयामः द्वे धनधान्यादिषु जनानामादरातिशयस्य । नितरामुच्यते नीवाकः । सनिधिः “समिधं” समिकर्षणं द्वे नैकव्यस्स | सन्निधिः पुंसि ॥ २३ ॥ लवः अभिलाव: लवनं त्रयं धान्यादिच्छेदनस्स | निष्पावः पवनं पवः श्रीणि धान्यादीनां पूतीकरणस्य । संकीर्णत्वाल्लिङ्गसंकरः । प्रस्तावः अबसरः द्वे प्रसङ्गय । यथा । अबसरपठिता बाणीत्यादि । असरः “तसर इति वा पाठ: " सूत्रवेष्टनं द्वे तन्तुवायकृतसूत्रवेहन मेदस्य तसरी इति प्रसिद्धस ॥ २४ ॥ प्रजनः उपसरः द्वे गर्भग्रहणस्य | प्रअयः प्रणयः द्वे प्रेम्णः । प्रसर इति वा पाठः | "असर: प्रणये वेगे" इति मेदिनी । घीशक्तिः निष्क्रमः द्वे बुद्धिसाम । “निष्क्रमो बुद्धिसंपतौ" इति विश्वः | "ब्रुश्रूषा श्रवणं Digitized by Google