i १] तृतीयं काण्डम्. बुभुक्षितः स्यात्सुघितो जिघत्सुरशनायितः ॥ परान्नः परपिण्डादो भक्षको घस्मरोऽमरः ॥ २० ॥ आथूनः स्यादौदरिको विजिगीषाविवर्जिते || उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्खोदरपूरके ॥ २१ ॥ सर्वान्नीनस्तु सर्वान्नभोजी गृधुस्तु गर्धनः ॥ लुब्घोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ ॥ २२ ॥ सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः || मत्ते शौण्डोत्कटक्षीबाः कामुके कमिताऽनुकः ॥ २३ ॥ कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः ॥ २५७ 40-23 " इच्छा अशनाया सा जाताऽख " | परान्नः परपिण्डाद: द्वे परानोपजीविनः । भक्षकः घसरः अग्ररः त्रीणि भक्षणशीलस्य । “अतीत्यमरः ” ॥ २० ॥ आधूनः औदरिकः द्वे विजिगीषाविवर्जिते उत्कर्षेच्छारहिते । बुभुक्षयाय - न्तपीडिते इत्यर्थः । उदरे प्रसित औदरिकः । “उदराहगाधूने” इति ठक् । आत्मम्मरि: कुक्षिम्भरिः द्वे यः खोदरं बिभर्ति तस्य "पोटभरू इति ख्यातस्य" । आत्मानं बिभर्ति आत्मम्भरिः ॥ २१ ॥ सर्वानीनः सर्वानमोजी द्वेयः सर्वेषां वर्णानां अभानि भुक्ते तस्य परमहंसादे: । गृभुः गर्धनः द्वे आकाङ्क्षाशीलस्य । लुब्धः । अभिलाषुकः तृष्णक् त्रीणि अभिलाषशीलस्य । “लुभ्यति स लुब्धः” । अभिलष्यतीति अभिलाषुकः । “लष कान्तों" कान्तिरिच्छा । “लक्ष्-' पतेत्युकञ् ” । पश्चापि लुब्धस्येति केचित् । तृष्णजौ । लोलुपः लोलुभः द्वे अतितृष्णाशीलस्य ।, गर्हितं लुम्पति लोलुपः” ॥ २२ ॥ सोन्माद: । “उम्मद इति सून्माद इति वा पाठः । सु अतिशयित उन्मादोऽस्य" । उन्मदिष्णुः द्वे उन्मादशीलस्य । अविनीतः समुद्धतः द्वे दुर्बिनीतस्य । “न. व्यनायि अविनीतः " । मत्तः शौण्डः उत्कटः क्षीब: "श्रीममिति नान्तो- ऽप्यस्ति " चत्वारि मत्तस्य । झुण्डायां पानागारे भवः शौण्डः । तत्र भव इत्यण् । “झौण्डो मत्ते च विख्याते” इति विश्वः । “उत्कटस्तीव्रमचयोः” इति हैमः । कामुकः कमिता अनुकः ॥ २३ ॥ कञः कामविता अभीक: कमनः कामनः अभिकः नव कामुकस्य । अनु कामयते अनुकः । अमीको Diglized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७५
दिखावट