१] A-45 तृतीयं काण्डम्. अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥ स्यादभ्यागारिकस्तस्मिनुपाधिश्च पुमानयम् || वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥ निर्वार्यः कार्यकर्ता यः संपन्नः सत्त्वसंपदा || अवाचि मूकोऽथ मनोजवसँः पितृसन्निभः ॥ १३ ॥ सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूँकुदः ।। लक्ष्मीवाँलक्ष्मणः श्रीलः श्रीमान्त्रिग्घस्तु वत्सलः ॥ १४ ॥ स्यायालुः कारुणिकः कृपालुः सूरतः समाः ॥ स्वतत्रोपावृतः स्वरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥ ईशितारौ । अघिभुवौ । नेतारौ । अधिकद्धिः समृद्ध द्वे सुसंपन्नस्य | “ अधिका ऋद्धिर्यस्य अधिकर्द्धिः" । कुटुम्बव्याप्तः ॥ ११ ॥ अभ्यागारिकः उपाधि: त्रीणि कुटुम्बपोषणादिव्यापारयुक्तस्य । “अभ्यागारे नियुक्तः अभ्यागारिकः " । अगारान्ताइन् इकादेशः । उपाधिर्नित्यं पुंसि । अङ्गान्यव- सवाः रूपं लावण्यं वरैरङ्गरूपैरुपेतो यः स सिंहसंहनन इत्येकम् ॥ १२ ॥ यः सवसंपदा व्यसनेऽप्यक्षुब्धं मनः सत्वं तत्संपत्त्या संपन्नः सन्कार्य करोति स निर्वार्य इत्येकम् । “निर्धार्य इत्यपि " । संपन्न इत्यत्र संयुक्त इति पाठः । "व्यसनेऽभ्युदये वापि ह्यविकारं सदा मनः । तत्तु सत्त्वमिति प्रोक्तं नमवि- निर्बुधैः किल" इति सरणात् । अवाक् मूकः द्वे “मूयते बध्यते वागस्य " । मनोजवसः । मनोजव इत्यपि । “मनोजवपितृसधर्माण: " इति नाममाला । पितृसभिभः द्वे पितृतुल्यस्य ॥ १३ ॥ परिणेत्रे आदरपूर्वकमलंकृतां कन्यां यो ददाति स कूकुद इत्येकम् । “कुकुद इत्यपि " । लक्ष्मीवान् लक्ष्मणः श्रील: "लील इत्यपि” श्रीमान् चत्वारि लक्ष्मीवतः । स्त्रिग्धः वत्सलः बत्से पुत्रादिस्नेहपानेsभिलाषोऽस्यास्ति द्वे स्नेहयुक्तस्य ॥ १४ ॥ दयालुः कारुणिक: कृपालुः सूरतः “सुरत इत्यपि " चत्वारि स्वतन्त्रः अपावृतः स्वैरी “स्खैर इत्यपि " खच्छन्दः न्दस्य । “ख: आत्मा तत्रं प्रधानं यस्य स्वतन्त्र : ' ॥ १५ ॥ परतन्त्रः परा- श्रीन: परवान् नाथवान् चत्वारि पराधीनस्य । "पर स्वाम्पसास्ति पर- निरवग्रहः दयाशीलख | पश्च स्वच्छ- "" Dightized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७३
दिखावट