13-17. २४२ सटीकामरकोशस्य जीवन्तकः शाकुनिको द्वौ वागुरिकजालिकौ || वैतंसिकः कौटिकच मांसिकश्च समं त्रयम् ॥ १४ ।। भृतको भृतिभुक् कर्मकरो वैतनिकोऽपि सः || वार्तावहो वैवधिको भारवाहस्तु भारिकः ॥ १५ ॥ विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः || निहीनोऽपसदो जाल्मः क्षुल्लक श्वेतरच सः ॥ १६ ॥ भृत्ये दासेरदासेयदासँगोप्यकचेटकाः || नियोज्यकिङ्करमैष्यभुजिष्यपरिचारकाः ।। १७ ।। पराचिंतपरिस्कन्दपरजातपरैघिताः ॥ [ शूद्रवर्गः ॥ १३ ॥ जीवान्तकः "जीवन्तिक इत्यपि " शाकुनिकः द्वे पक्षिणां हन्तरि "पक्षांचा पारधी इति ख्याते " । वागुरिक: जालिकः द्वे जालेन मृगान्व- भ्रतः । वागुरा मृगबन्धनी तया चरति वागुरिकः । वैत॑सिकः कौटिकः मांसिकः त्रयं यो मांसविक्रयेण जीवति तस्य "खाटिक इति ख्यातस्य" । वीतंसेन मृगपक्ष्यादिबन्धनोपायेन चरति वैतंसिकः । कुटेन मृगादिबन्धनयं- श्रेण चरति कौटिकः । मांस पण्यमस्य मांसिकः ॥ १४ ॥ श्रुतकः भृति- शुक् कर्मकर: वैतनिकः चत्वारि वेतनोपजीविनः “चाकर, मजूर इति प्रसिद्धस्य " भृतिवेतनं भृर्ति वेतनं भुक्ने भृतिथुकू । वार्तावहः वैवधिक: “विवधिक इत्यपि " द्वे वार्ताया वाहके “कावड्या इति ख्याते ” । विवधः पर्याहारः तं वहति वैवधिकः । विवधवीवधशब्दौ उभयतः बद्धशिक्ये स्कन्धवाह्ये काष्टे वर्तेते । भारवाह: भारिक: “हे ओझेकरी इति ख्यातस्य । भारीति नान्तोऽप्यन्यत्र " ।। १५ ।। विवर्णः पामर: नीचः प्राकृतः पृथक्- जनः निहीनः अपसदः “ अपशेद इति भरतमालायाम्" जाल्मः क्षुल्लक 'खुल्लकः । खुल्लकत्रिषु नीचेऽल्पे इति रभसः " | इतरः दश नीचस्य ।। १६ ।। भृत्यः दासेर: दासेयः दासः दाश इति तालव्यान्तोऽपि " गोप्यकः चेटक: “चेडक इत्यपि " नियोज्यः किरः प्रैष्यः “प्रेष्यः इत्यपि " भुजिष्यः परिचारकः एकादश दासस्य । ग्रैष्य इत्यत्र प्रादूहोढेति वृद्धिः ॥ १७ ॥ पराचितः "पराजितोऽपि । परैराजीयते स्म " परिस्कन्द: “परिष्कन्दः परे - मेति वा पत्वम् । परिष्कमः परिस्कन्नथ इत्यपि " परजातः परैधितः चत्वारि Digitized by Google 44
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२६०
दिखावट