सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] द्वितीयं काण्डम्. शूद्राविशोस्तु करणोऽम्बष्ठो वैश्यादिजन्मनोः ।। शूद्राक्षत्रिययोरुप्रो मागधः क्षत्रियाविशोः ॥ २ ॥ माँहिषोर्याक्षत्रिययोः क्षत्ताशूद्रयोः सुतः ।। ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः ॥ ३ ॥ रथकारस्तु माहिष्यात्करण्यां यस्य संभवः ॥ स्यान्चण्डॉलस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥ कारुः शिल्पी संहतैस्तैर्दयोः श्रोणिः सजातिभिः ॥ कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः ॥ ५ ॥ २३९ विट् वैश्यः तयोः सुत इति वक्ष्यमाणेनान्वयः स करण इत्येकम् । स तु लेखनवृत्तिः । वैश्यायां ब्राह्मणाजातः सुतोऽम्बष्ठः । स तु चिकित्सावृतिः । शूद्रायां क्षत्रियाजातः उग्रः । स तु शस्त्रवृत्तिः । क्षत्रियायां वैश्याजातो मागधः । स तु राजादिस्तुतिपाठवृत्तिः । एकैकम् || २ || अर्था वैश्या | वैश्यायां क्षत्रियाजातो माहिषः “माहिष्यः ” । अस्य ज्योतिष शाकुनं शाख स्वरशास्त्रं च जीविका | माहिष्योऽर्याक्षत्रिययोरित्यपि पाठः । अर्या क्षत्रिया तस्यां शूद्राजातः क्षता | तस्य वृत्तिः पापर्द्धिकादिः । क्षत्तारौ । ब्राह्मण्यां क्षत्रियाजातः स्रुत इत्युच्यते तस्य गजबन्धनमश्वानां चाहनं कर्म सारथेरित्या- दिर्जीबिका । तस्यां ब्राह्मण्यां वैश्याजातो वैदेहकः । चतुःषष्टिकलाकर्म- शैक्ष्यं सदुपजीविका । पण्याङ्गनानां राज्ञां च कुर्यात्सङ्गं तदिच्छया । उप- जीव्यं तु तास्वेवेति । एकम् ॥ ३ ॥ करण्यां शूद्रविशोः सुतायां माहिष्या- द्वैश्याक्षत्रिययोः जाताआातो रथकार: स्यात् । अस्य वर्तनं तु । रथकर्मे- न्धनादिभिः । ब्राह्मण्यां वृषलेन शूद्रेण य उत्पादितः स चण्डालः स्यात् । "चाण्डाल इत्यपि ” । मृतचैलैर्निन्धमांसः इमशाने तस्य जीवितमित्येकैकम् ॥ ४ ॥ कारुः शिल्पी द्वे चित्रकारादे: । शिल्पं कला सास्त्यस्य शिल्पी । “तक्षा च तन्तुवायच नापितो रजकस्तथा । पञ्चमधर्मकारथ कारवः शिल्पिनो मताः” इत्यपि । तैः सजातिभिः संहतैः श्रेणिः | सजातीयशिल्पीसङ्घः श्रेणि- रित्यर्थः । स स्त्रीपुंसलिङ्गः । एकम् | कुलकः । कुलिकः । “कुलिको नाग- भेदे स्याद्रुमेदे कुलसत्तमे " इति मेदिनी | कुलश्रेष्ठी द्वे शिल्पीकुलप्रधा- नस्य । शिल्पिमेदानाह । मालाकारः मालिकः द्वे "माळी इति प्रसि- Diglized by Google