९] द्वितीयं काण्डम् लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कॉलॉयसायसी ॥ अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥ १८ ॥ सर्वं च तैजसं लोहं विकारस्त्वयसः कुशी || क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ।। ९९ ॥ गवलं माहिषं शृङ्गमभ्रकं गिरिजामले | स्रोतोञ्जनंतु सौवीर कापोताजनयामुने ।। १०० ।। 97-100 च । ताम्रकं शुल्कं म्लेच्छ्मुखं ज्यष्टं "द्विष्टमपि " वरिष्ठं उदम्बरं "औदुम्बरं भवेताम्रे फलादौ यज्ञशाखिनः" इत्यजयः । षट् ताम्रस्य ।। ९७ ॥ लोहः शस्त्रकं तीक्ष्णं पिण्डं कालायसं "कृष्णायसमिति रत्नमाला ” । अयः अश्म- सारः सप्त लोहस्य । “अश्मसारं च शस्त्रकम्" इत्यमरमाला | मण्डूरं सिंहा “सिहानमित्यपि पाठः । सिङ्गाणमित्यपि " द्वे लोहमलस्य लोहकीट इति ख्यातस्य । मण्डूरं टवर्गमध्यम् ।। ९८ ।। सर्वमपि तैजसं सुवर्णरजता- दिकं लोहमित्युच्यते । प्रज्ञाद्यणि लौहमित्यपि । यद्वा सर्व स्वर्णादि- तैजसं लोहं च स्यात् । तेजसो विकारस्तैजसम् । यदुक्तम् । “सुवर्ण रजतं ताम्रं रीतिः कांस्य तथा त्रषु । सीसं कालायसं चैवमटी लोहानि चक्षते " इति । अयस्तु विशेषाल्लोहसंज्ञम् । अयसो विकारः फालाख्यः कुशी स्यात् । यच्छाश्वतः | कुशी वला कुशी फाले इति । एकं स्त्रीलिङ्गम् । क्षारः काचः द्वे काचस्य " कांच बांगडखार इति ख्यातस्य " क्षरति क्षारः । चपलः रसः सूतः पारदः । पारतः । “रसेन्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते” इति तारपाल: । “पारतस्तु मनाक्पाण्डुः सुतस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः" इति शब्दार्णवः । चत्वारि पारदस्य "पारा इति ख्यातस्य " ॥ ९९ ॥ यन्माहिषं शृङ्गं तद्भवलमित्येकम् । पारदो हि प्रायेण गबले निघाप्यते तत्र तदभिधानम् । अभ्रकं गिरिजामलं द्वे "अभ्रक इति ख्यातस्य' । अअस्य प्रतिकृतिरभ्रकम् । गिरिजम् । अमलमिति कश्चित् । तन्मते त्रीणि । “गिरिजं गिरिजाबीजममलं गवलध्वजम्" इति बाचस्पतिः स्रोतोजनं सौवीरं कापोताश्चनं यामुनं चत्वारि सौबिराञ्जनस्थ “सुरमा इति ख्यातस्य ” । यमुनास्त्रोतसो जातमञ्जनं स्रोतोञ्जनम् | सुवीर- देशे भवं सौवीरम् । धन्वन्तरिस्तु । “अञ्जनं मेचकं कृष्णसौवीरं स्यात्सुवी- Digitized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५३
दिखावट