सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

85-8% २३२ सटीकामरकोशस्य [ वैश्यवर्गः ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् || सुवर्णबिस्तौ हेम्रोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ || तुला स्त्रियां पलशतं भारः स्याविंशतिस्तुलाः || आचितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७॥ कार्षापणः कार्षिकः स्यात्कार्षिके ताम्रिके पणः ॥ अस्त्रियामाढकद्रोणो खाँरी वाहो निकुञ्चकः ॥ ८८ ॥ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् || स्वाक्षे अशीतिगुञ्जाभिस्तुलिते सुवर्ण एवेत्यर्थः । रुद्रस्तु | "सुवर्ण स्वर्ण- बिस्तयोः " इति क्लीबमाह | तस्य हेन: पले कुरुबिस्त इत्येकम् ॥ ८६ ॥ पलानां शतं तुला स्यात् एकं खियाम् । विंशतिस्तुलाः एको भारः स्यात् एकम् । 'भार: स्याद्वीवघे विष्णौ पलानां द्विसहस्रके" इति कोशान्तरम् । पुरुषेण हि द्वे पलसहस्से वोढुं शक्येते | भ्रियत इति भारः । दश भाराः आचित इति स्युः । यः शाकटः शकटेन वोर्ड सक्यो भारः सोऽप्याचित इत्येकम् । “आचितः शकटोन्मेषे पलानामयुतद्वये" इति विश्वः ॥ ८७ ॥ कार्षापण: कार्षिक: द्वे राजतकर्षपरिमितरूपकस्य रुपया इति ख्यातस्य । “कार्वापणोऽस्त्री कार्षिके पणषोडशिकेऽपि च " इति कोशान्तरम् । ताम्रिके ताम्रसंबन्धिकर्षप्रमाणे तस्मिन्कार्षिके पण इत्येकं पैसा इति ख्यातस्य । इति तुलामानमुक्तम् । अङ्गुलिमानं हस्तादि तु नृवर्गे उक्तम् । प्रस्थमानं त्वाह । आढकादयः शब्दाः परिमाणार्थकाः परिमाणविशेषवाचकाः पृथक् प्रत्येक भिना इत्यर्थः । तत्र आढक इत्येकं पायली इति ख्यातस्य | द्रोण इत्येकं अदमणी इति ख्यातस्य । द्वे अप्यस्त्रियाम् | खारी इत्येकं दीडमणी इति ख्यातस्य | खार इति पुंसि वा । खारिरिति इस्वान्तोऽपि खियाम् । वाह इत्येकं बारामणी इति ख्यातस्य । निकुश्चक इत्येकं भूठ इति ख्यातस्य ॥ ८८ || कुडव इत्येकं पावशेर इति ख्यातस्य । कुटप इति मुकुटः । कुडपो वा । कुडवप्रमाणं तु । मृद्वेणुकाष्ठलोहादेः पात्रं यचतुरङ्गुलम् | विस्तीर्ण च तथोचं च तन्मानं कुडवं वदेत् । प्रस्थ इत्येकं शेर इति ख्यातस्य | आद्यशब्दाच्छ्रर्पभारादिग्रहः । यदाहुः । “पलं प्रकुशकं सृष्टिः क्वडवस्तंञ्चतुष्टयम् | चत्वारः कुडवा: प्रस्यचतुष्प्रस्थं तथाऽऽढकम् । अष्टाढको Diglized by Google