| ९]. द्वितीय काण्डम्. अर्जुन्यभ्या रोहिणी स्यादुत्तमा गोषु नैचिकी || वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ६७ ।। बिहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी || चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायनी ॥ ६८ ॥ वशा वन्यऽवतोका तु स्रवद्र्भाऽथ सन्धिनी ॥ आक्रान्ता वृषभेणाथ वेहगर्भोपघातिनी ॥ ६९ ॥ काल्योपसर्या प्रजने प्रोही बालगर्भिणी ॥ स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥ २२७ 66-20 " सौरमेयी मौ: उसा माता शुङ्गिणी ॥ ६६ ॥ अर्जुनी अन्या रोहिणी नवक गवि | गावौ । मातरौ । या गोषु उत्तमा सा गौर्नैचिकीत्येकम् । निचिकी । “नैचकी गौरुसमा तु निचिकी सा प्रकीर्तिता" इति नाममाला । “नीचिका नीचिकी च" इति द्विरूपकोशः नीचैश्चरति नैचिकी । वर्णावयवप्रमाणादीनां भेदात् शबलीघवलादयो गवां संज्ञाः । शबली चित्रवर्णा "शबलापि” घवला शुक्लवर्णा “धवल्यपि ” । आदिना कपिला पाटलेत्यादि । अवयवभेदात् लम्बकर्णा वक्रश्शृङ्गीत्यादि । “प्रमाण भेदात् दीर्घा खर्वा वामनीत्यादि। " एकैकम् ॥ ६७ ॥ वयोभेदात्संज्ञाभेदमाह । द्विवर्षा द्वे वर्षे प्रमाणमस्याः सा गौर्द्विहायनी एकम् । एकान्दा गौः एकहायनी एकम् । चतुरंन्दा गौः चतुर्हायणी एकम् । त्रिवर्षा त्रिहायणी स्यात् एकम् । “त्रिचतुर्भ्यो हायनस्य णत्वं वाच्यम्" ।। ६८ || वशा वन्ध्या द्वे वांश इति ख्यातायाः । अवतोका बोके त्यपि स्रवद्गर्भा द्वे अकस्मात्पतितगर्भायाः । “मृतवत्सा सवद्गर्भा " इति माला । वृषभेण मैथुनार्थे आक्रान्ता सन्धिनी | सन्धा गर्भाधानमस्त्यस्याः सन्धिनी वा एकम् । वृषोपगमनाद्गर्मोपघातिनी वेहदित्युच्यते एकम् । तान्तं त्रिगाम् । चिहन्ति गर्ने बेहत् । वेषोपगतेति भागुरिः ॥ ६९ ॥ प्रजने गर्भग्रहणे काल्या प्राप्तकाला सा गौरुपसर्या एकम् | बाला चासौ गर्मिणी च बाल- गर्मिणी सा प्रष्ठौही। “पष्ठौहीत्यपि पाठः । तत्र पृषोदरादित्वात् रलोपः " एकम् । अचण्डी सुकारा द्वे अकोपनायाः । बहुसूतिः परेष्टुका द्वे बहुप्रसवायाः ।। ७० ।। चिरप्रसूता "वष्करणी वष्करिणीत्यपि । बष्कयस्तरुणवत्सः Diglized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४५
दिखावट