९] द्वितीय काण्डम्. २२१ मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता ॥ ४३ ॥ कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता || स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥ शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् || प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥ स्यापिच्छिलं तु विजिलं संमृष्टं शोषितं समे || चिकणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥ 43-41 खण्डविकारः शर्करा सिता त्रीणि शर्करायाः “खडी साकर, पिठी साकर इति भेदमिनायाः ।” पश्चापि शर्कराया इत्येके || ४३ || दध्यादिना क्षीरस्य विकृतिः कूर्चिका | यदाहुः । “दना सह पयः पकं यत्तत्स्याइधिकू- चिका । तत्रेण पकं यत्क्षीरं सा भवेत्तक्रकूचिका" इति । एकम् । रसाला मार्जिता द्वे दघिमधुशर्करामरीचार्द्रादिभिः कृतस्य लेखस्य श्रीखण्ड इति ख्यातस्य । यदुक्तं सुपशास्त्रे । “अर्धाढकः सुचिरपर्युषितस्य दनः खण्डस्य षोडश पलानि शशिप्रमस्य | सर्पिष्पलं मधु पलं मरिचं द्विकर्ष शुष्ठया: पलार्धमपि चार्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतपात्रसंख्या । एषा वृकोदरकता सरसा रसाला या स्वादिता भगवता मधुसूदनेन " इति । तेमनं निष्ठानं द्वे व्यञ्जनस्य दध्यादेः “कढी इति ख्यातस्य ।" तिमत्याग- भवत्यनमनेन तेमनम् । सुपाद्यपि तेमनसुपचारात् । इतः परं वासितान्ता वाच्यलिङ्गाः ॥ ४४ ॥ शूलाकृतं भटित्रं शूल्यं त्रयं शूलेन संस्कृतस्य मांसादेः । झूलेन पकं झूलाकृतम् । शूलात्पाक इति डाच् | शूलं लोहशलाका । उख्यं पैठरं द्वे स्यालीसंस्कृतस्थानादे: । प्रणीतं उपसंपनं द्वे रसादिसंपन्नस्य व्यञ्ज- नादेः । प्रयस्तं सुसंस्कृतं द्वे प्रयतनिष्पन्नस्य घृतपकादेः ॥ ४५ ॥ पिच्छिलं विजिलं विजलं “विजनं चेत्यपि " द्वे मण्डयुक्तदध्यादेः “साई सुद्धां दहीं महा इति ख्यातस्य । " संमृष्टं शोषितं द्वे केशकीटाद्यपनयनेन शोधितखा- आदे: । चिकर्ण मसृणं स्त्रिग्धं त्रीणि स्निग्धस्य । चिगिति अव्यक्त कमति चिकणम् । “कण शब्दे" । भावितं वासितं द्वे पुष्पादिद्रव्यांतरेणाधिवासि- तस्य । यथा धूपेन भाषितास्तिलाः । वास्यते द्रष्मान्तरेण मिश्रीक्रियते धूप- Digitized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३९
दिखावट