सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33-36 सटीकामरकोशस्य क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥ स्युरावेशिक आगन्तुरतिथिर्ना गृहागते ॥ प्राघूर्णिकः प्राघुणकश्चाभ्युत्थानं तु गौरवम् ॥ ३४ ॥ पूजा नमस्याउपचितिः सपर्यार्चार्हणाः समाः || वरिवस्या तु शुश्रूषा परिचर्याप्युपासनां ॥ ३५ ॥ व्रज्याऽटाट्या पर्यटनं चर्या वीर्यापथे स्थितिः || उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ॥ ३६॥ (“ प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिचं सः ॥ १७४ [ ब्रह्मवर्ग: अर्ध्यमित्येकम् । पादाय पादार्थों वारिणि पाद्यं एकम् । अतिध्यर्थे आति- ध्यमित्येकम् । अत्रातिथौ यत्साधु तत्र आतिथेयमित्येकम् ॥ ३३ ॥ आवे- शिक: आगन्तुः अतिथि: गृहागतः चत्वारि गृहागतस्य । ना पुमान् । “त्रिकाण्डशेषे तु प्राघुणस्त्वतिथिर्द्वयोरित्युक्तम् । स्त्रियां तु अतिथी " । " दूराचोपगतं श्रान्तं वैश्वदेव उपस्थितम् । अतिधिं तं विजानीयान्नातिथिः पूर्वमागतः” इति व्यासः । प्रचूर्णिकः प्राघुणकः द्वे अभ्यागतस्य । “तिथिपर्वो- त्सवाः सर्वे त्यक्ता येन महात्मना । सोऽतिथिः सर्वभूतानां शेषानभ्याग- तान्विदुः" इति यमः | अभ्युत्थानं गौरवं द्वे उत्थानपूर्वकसत्कारस्य ॥ ३४ ॥ पूजा नमस्या अपचितिः सपर्या अर्चा अर्हणा षट् पूजा | वरिवस्या शुश्रूषा परिचर्या उपासना उपासनमित्यपि । “उपासनं शराभ्यासेऽप्युपा- स्तावासनेऽपि च” इति विश्वमेदिन्यौ । चतुष्कसुपासनस्य | तत्र शुश्रूषाशब्दो गुरुसेवायां लाक्षणिकः । “परिचर्या तूपचर्येति भागुरिः " ॥ ३५ ॥ व्रज्या अटा अठ्या पर्यटनं चत्वारि पर्यटनस्य | "अटा पर्यटनं भ्रमः" इति रत्नकोशः । अख्येत्यत्र मूर्धन्यतालव्यसंयोगः | वृथाट्या खलु सा तस्येति प्रयोगः | ईर्या- पये ध्यानमौनादिके योगमार्गे स्थितिः चर्या स्यात् एकम् । “चर्यो त्वीर्यो विदुर्बुधाः" इति ग्रन्थान्तरे | उपस्पर्श: आचमनं द्वे “उपस्पर्श: स्पर्शमात्रे स्नाना- चमनयोरपि " इति मेदिनी । मौनं अभाषणं द्वे ।। ३६ || प्राचेतस इत्यादिसा- र्थश्लोकः कचिदस्ति तत्र प्राचेतसादिचतुष्कं वाल्मीकस्य | मैत्रावरुण इत्यपि । वाल्मीकिः " बल्मिकिरिति द्विरूपकोशे । वल्मीकः । अपि वाल्मीकवल्मी- Digitized by Google