६] द्वितीयं काण्डम्. " ( " मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि ॥ वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि ” ॥ १ ॥ “नैयायिकस्त्वंक्षपादः स्यात्स्याद्वादिक आर्हकः ॥ चार्वाकर्लोकायतिको सत्कार्ये सांख्यकापिलों ||२||) (१ ) उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृगुरुः ।। मन्त्रव्याख्याक्कदाचार्य आदेष्टाँ त्वध्वरे व्रती ॥ ७॥ यष्टा च यजमानश्च स सोमवति दीक्षितः || १६७ 6-7 ॥ नैया- दर्शी ” । श्रोत्रियः छान्दसः द्वे वेदाध्यायिनः ॥ ६ ॥ मीमांसकमित्यादिप- द्यद्वयमत्र केचित्पठन्ति । तदत्रत्यं नेत्युपेक्षितम् । तस्येयं बालबोधार्थ व्याख्या | मीमांसक: जैमिनीयः द्वे मीमांसाशास्त्रवेत्तुः । वेदान्ती ब्रह्मवादी द्वे वेदान्त- शास्त्रज्ञस्य | वैशेषिक: औलूक्य: द्वे सप्तपदार्थवादिनः । ते च पदार्थाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तेति कणादमतम् । सौगतः शून्यवादी द्वे जगत्कारणं शून्यमिति मतावलम्बिनो नास्तिकस्य || यिक: अक्षपदः आक्षपादो वा द्वे न्यायशास्त्रज्ञस्य | प्रमाणप्रमेयसंशयविप- र्ययतर्केत्यादिषोडशपदार्थवादिनः गोतमस्य | स्याद्वादिक: आईकः द्वे मोक्षो- ऽस्ति स्वाभास्ति स्यादिति वादिनः । चार्वाक: लौकायतिकः लोकायतिको वा द्वे देहात्मवादिनो बौद्धस्य | सांख्यः कापिलः द्वे तदेवेदं कार्यं जगदिति मानिनः सांख्यशास्त्रज्ञस्य || २ || उपाध्यायः अध्यापकः द्वे “उपेत्याधी- यतेऽसादुपाध्यायः । अध्यापयतीत्यध्यापकः ” । निषेको गर्भाधानं आदिना पुंसवनादि । तस्य कर्मणः कर्ता पित्रादिर्गुरुः स्यात् एकम् । मत्रो वेदस्तस्य व्याख्याकृत् आचार्य: स्यात् । “उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । साङ्गं व सरहस्यं च तमाचार्य प्रचक्षते " इति । एकम् | व्याख्यालक्षणं तु | “पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना | आक्षेपोऽथ समाधानं व्याख्यानं षडघं मतम्" इत्युक्तम् । अध्वरे यागविषये य ऋत्विजामादेष्टा स व्रती ॥ ७॥ यष्टा यजमानः इति त्रयेणोच्यते । "आदिष्टीत्यपि पाठः व्रतिनौ । यष्टारौ । स यजमानः सोमवति यागे आदेष्टा दीक्षित इत्युच्यते एकम् । इज्याशीलः यायजूकः द्वे यजनशीलस्य । “पुनः पुनः भृशं वा यजते यायजूकः” । इदं पद्यद्वयं ताळपत्र पुस्तकेऽपि नास्ति || Diglized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७५
दिखावट