j द्वितीयं काण्डम्. १३७ स तु द्विजोsमेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥ कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः || सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥ पैतृष्वसेयः स्यात्पैतृष्वस्त्रीयश्च पितृष्वसुः || सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ॥ २५ ॥ अथ बान्धकिनेयः स्याइन्धुलश्चासतीसुतः ॥ कौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः ॥ आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥ आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।। 23-27 दिधिषूः परपूर्वाब्रेदिधिषुस्तत्पुरन्धिकः" इति नाममाला | द्विजशब्देन वर्ण- श्रयस्यापि ग्रहणम् ॥ २३ ॥ कन्यकाया अनूढाया जातः सुतः कानीन इत्युच्यते कर्णः व्यासच । एकम् । सुमगासुतः सौभागिनेयः द्वे सुभगापु- त्रस्य । यः परस्त्रियाः सुतः पारसैणेयः एकम् ॥ २४ ॥ पितृष्वसुः पितृभ- गिन्याः सुतः पैतृष्वसेयः पैतृष्वस्त्रीय: द्वे । मातृष्वसुः सुतोऽप्येवम् । यथा मातृष्वसेयः मातृष्वत्रीयः द्वे । विमाता मातुः सपती तस्याः पुत्रो वैमा- त्रेय इत्युच्यते एकम् । “वैमात्रोऽप्यन्यत्र ” ॥ २५ ॥ बान्धकिनेयः बन्धुलः असतीसुतः कौलटेरः कौलटेयः पञ्च कुलटापुत्रस्य ॥ २६ ॥ यदि तु सती भिक्षुकी मिक्षार्थिनी तर्हि तस्या आत्मजः कौलटिनेयः कौलटेयः द्वे | कुलानि भिक्षार्थ अटति न तु जारार्थ तस्याः कुलटायाः पुत्रः कौलटिनेयः । इत- रस्याः कौलटेर इति भेदः । “कुलं जनपदे गृहे " इति विश्वः । आत्मजः तनयः सुनुः सुतः पुत्रः पञ्चकं पुत्रस्य । “पुभानो नरकाद्यसात्पितरं त्रायते सुतः । तात्पुत्र इति प्रोक्तः स्वयमेव स्वयंडवा " इति । अमी आत्मजादयः सर्वे त्रियां वर्तमानाः ॥ २७ ॥ दुहितरं आहुः । यथा आत्मजा तनया मनुः सुवा पुत्री दुहितेत्यपि ऋदन्तम् | अपत्यं तोकं द्वे तयोः समे पुत्रे दुहितरि च क्लीबलिङ्गे एवेत्यर्थः । औरस: उरस्यः “औरस्य इत्यपि " द्वे खजाते सव- र्णायामूढायां स्वमाजाते पुत्रे न तु दत्रिमादौ । तातः जनकः पिता त्रीणि १८ Dightized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४५
दिखावट