20-22. १३६ सटीकामरकोशस्य स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् || श्रद्धालुर्दोहदवती निष्कलाँ विगतार्तवा ॥ २१ ॥ आपन्नसत्त्वा स्यादुर्विण्यन्तर्वत्री च गर्भिणी || गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥ पुनर्मूर्दिधिरूढा दिस्तस्या दिधिषुः पतिः ॥ [ मनुष्यवर्गः रजस्वला स्त्रीधर्मिणी अवि: आत्रेयी मलिनी पुष्पवती || २० || ऋतुमती उदक्या अष्ट रजस्खलायाः । “द्वादशाद्वत्सरादूर्ध्वमापञ्चाशत्समाः स्त्रियाः । मासि मासि भगद्वारात्मकृत्यैवार्तवं स्रवेत्” इति वैद्यशास्त्रे । “द्वादशाब्दे व्यतीते तु यदि पुष्पं बहिर्न हि । अन्तः पुष्पं भवत्येव पनसोदुम्बरादिवत्" इति वात्स्या- यनः । स्त्रीधर्मो रजः सोऽस्ति अस्याः सा स्त्रीधर्मिणी । “अविं स्त्रीधर्मिणीं विद्यात्" इति कात्यः । अवीति दीर्घान्तापि । आत्रेयीवदगम्यत्वादात्रेयी | आत्रेयिकेत्यन्यत्र । रजः पुष्पं आर्तवं त्रीणि स्त्रीरजसः । ऋतुरेवार्तवं प्रज्ञा- यथ । ऋतुर्नाम शोणितदर्शनोपलक्षितो गर्भधारणयोग्यः स्त्रीणामवस्थावि- शेष उच्यते । श्रद्धालुः दोहदवती द्वे गर्भवशादनादिविशेषाभिलाषिण्याः । "दोहदं गर्भिण्यभिलाषोऽस्त्यस्याः " निष्कला "निष्कली " विगतार्तवा द्वे हीनरज़स्कायाः । “निर्गतं कलं शुक्रमस्या: निष्कला " ॥ २१ ॥ आप - असत्या आपनं सत्त्वं जंतुरनयाऽस्यां वा । गुर्विणी अन्तर्वली गर्भिणी चत्वारि गर्भिण्याः | अन्तरस्त्यस्यां गर्भोऽन्तर्वती । गणिकादेर्गणे समूहे गाणिक्यादि । यथा गणिकानां समूहो गाणिक्यम् । गर्भिणीनां समूहो गार्मिणम् । युवतीनां समूहो यौवतम् । एकैकम् ॥ २२ ॥ या द्विरूढा द्विवार तात्र पुनर्मू: दिधिषुः दिघीषू: दिधिषुरपि । द्वे । पूर्वमेकस्य भूत्वा पुनरन्यस्य भवतीति पुनर्भूः । “अक्षता च क्षता चैव पुनर्भूः संस्कृता पुन: " इत्युक्तम् । मनुस्तु । “ज्येष्ठायां यद्यनूढायां कन्यायामूयतेऽनुजा । सा चाग्रे- दिधिषुर्शेया पूर्वा तु दिधिषुर्मता" इत्याह । दिधिष्वौ | तस्या विरूढायाः पतिर्दिधिषुरित्युच्यते एकम् । “पुनर्भूः पतिरुक्तञ्च पुनर्भुर्दिधिपुस्तथा" इत्येषो- ऽप्युदन्त इति स्वामी । सा पुनर्भूर्यस्य द्विजस्य कुटुम्बिनी कुटुम्ब पुत्रा- दिपोष्यवर्गस्तद्वती सोऽग्रेदिधिरित्येकम् । अग्रेदिधिषुरिति इखान्तोऽपि । Digtized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४४
दिखावट