सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ मनुष्यवर्गः १३२ सटीकामरकोशस्य पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥ भार्या जायाऽथ पुंभूम्नि दाराः स्यात्नु कुटुम्बिनी || पुरंध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥ कृतसापनिकाऽध्यूढाघिविन्नाथ स्वयंवरा || पतिंवरा च वर्याऽथ कुलस्त्री कुलपालिका ॥ ७॥ कन्या कुमारी गौरी तु नमिकाsनागतार्तवा || द्वितीया द्वयोः पूरणी द्वितीया । " द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे इयो: " इति हेमचन्द्रः । सहधर्मिणी सह धर्मोऽस्ति यस्याः । पत्या सह कर्मस्व- धिकारात् । सधर्मिणीत्यपि ॥ ५ ॥ भार्या जाया जायतेऽस्याम् । “जाया- यास्तद्धि जायात्वं यदस्यां जायते पतिः " इति मनुः । दाराः दारयन्ति आवन् "वृ विदारणे" णिजन्तः । सप्त परिणीतायाः स्त्रियाः । तत्र दारशब्दो नित्यं पुंसि बहुवचनान्तश्च । दारशब्दष्टाबन्तोऽपि । “क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः” इति हेमचन्द्रात् । पाणिगृहीतोऽस्याः पाणिगृहीती ङीषन्ता | कुटुम्बिनी कुटुम्बमस्ति यस्याः सा । “कुटुम्बं पोष्यवर्गे च" इत्यमरमाला । पुरन्ध्री “ पुरन्ध्रिः" द्वे पतिपु- त्रादिमत्याः । सुचरित्रा सती साध्वी पतिव्रता चत्वारि पतिसेवातत्परायाः ॥ ६ ॥ कृतसापतिका अध्यूढा अधिविभा त्रीणि कृतानेकविवाहस्य पुंसो या प्रथ- मोढा स्त्री तस्याः । कृतं सापलिकं सपतीभावोऽस्याः सा । कृतसापत्न केति पाठः । स्वयंवरा पतिंवरा वर्या त्रीणि स्वेच्छया पतिवरणोयुक्तायाः । स्वयं वृणुते स्वयंवरा | कुलस्त्री कुलपालिका द्वे कुलवत्याः ॥ ७ ॥ कन्या कुमारी द्वे प्रथमवयसि वर्तमानायाः । गौरी ननिका अनागतार्तवा त्रीणि अदृष्टरज- स्कायाः । अनागतं अप्राप्तं आर्तवं रजो यस्याः सा । “अष्टवर्षा भवेद्गौरी दशमे नग्निका भवेत्” इति तस्या अवान्तरभेदः । “अष्टवर्षा भवेत्कन्या नववर्षा घ रोहिणी || दशवर्षा भवेगौरी चात ऊर्ध्वं रजखला " इति स्मृतिवचनम् । "यावत् षोडशसंख्यमब्दमुदिता बाला ततस्त्रिंशतं तावत्स्यात्तरुणीति बाणवि- शिखैः संख्या तु यावद्भवेत् ॥ सा प्रौढेत्यभिधीयते कविवरैर्वृद्धा तदूर्ध्वं स्मृता निन्द्या कामकलाकलापविधिषु त्याज्या सदा कामिभिः” ॥ “बालेति गीयते नारी याबद्वर्षाणि षोडश” । “श्यामा षोडशवार्षिकी" इति। "गौरी त्वसंजातर- जाः" इत्यप्युक्तं भवति । मध्यमा दृष्टरजाः द्वे प्रथमप्राप्तरजोयोगायाः | तरुणी Digized by Google