i i | ! ४]. द्वितीयं काण्डम्. इक्षुगन्धा पोटगलः पुंसि भूनि तु बल्वजाः ॥ रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥ स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् || अभयं नलदं सेव्यममृणालं जलाशयम् || १६४ ॥ लामज्जकं लघुलयमवदाहेष्टकापथे | नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ।। अस्त्री कुशं कुथो दर्भः पवित्रमथकत्तृणम् ॥ पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ।। १६६ ।। 162-165 १.१७ " इक्षुगन्धा पोटगल: त्रीणि काशस्य “काशं पुनपुंसकम् ” । बल्वजा इत्येकं पुलिङ्गं बहुवचनान्तम् “मोळ, लहाळे, लवा इति ख्यातस्य" । एको बल्बज इति भाष्यकारवचनादेकत्वेऽपि । रसालः इक्षुः द्वे इक्षोः । पुण्डूः कान्ता- रकः इत्यादयस्तस्येक्षोर्भेदाः । आदिना कोशकारादिग्रहः । स च । “ इक्षुः कर्कटको वंशः कान्तारो वेणुनिसृतिः । इक्षुरस्यः पौण्डकथ रसाल: कुसुमा- रकः" इति एकैकम् ।। १६३ || वीरणं वीरतरं द्वे तृणभेदस्य ": काळा वाळा इति ख्यातस्य । अस्य वीरणस्य मूले उशीरं अभयं नलदं सेव्यं अमृणालं जलाशयम् || १६४ ॥ लामजकं लघुलयं अवदाई इष्टकापर्थ इति दश नामानि स्युः । लघु लयं इति पृथगपि । “लामञ्जकं सुवासं स्यादमृणालं लयं लघु" इति सुश्रुतः । अवदाहेष्टमिति अवदाहेष्टकापथमिति चैकैक पदमिति । नडादयः नडकाशादयः तृणं तृणजातीया इत्यर्थः । “नलादय इत्यपि पाठः । ये च गर्मुच्छ्यामाकप्रमुखाः । गर्मुच्छ्यामाको तृणधान्यविशेषौ । प्रमुखशब्दाद्वक्ष्यमाणाः कुशादयः ककुकोद्रवाद्याश्च । तेऽपि तृणजातीयाः । अत्र प्रमुखशब्दाभीवाराद्या ग्रहीतव्याः । अन्यथा कोद्रवादीनां हविष्य- त्वापातात् । “श्यामाक: श्यामकोऽपि च " इति हलायुधाच्छ्यामकोऽपि । एकम् ।। १६५ ।। कुशं कुथः दर्भः पवित्रं चत्वारि कुशस्य । तत्र कुशं क्लीन- पुंसोः । कर्ण पौर सौगंधिकं ध्यामं देवजग्धकं रौहिषं षद् गड्डाण "रोहि- सगवत " इति ख्यातस्य तृणभेदस्य || १६६ || छत्रा अतिच्छत्रः पालनः । पालं क्षेत्रं हन्तीति पालनः । मालातृणकं “ मालाकाराणि तृणान्यस्य "। Digitized by Google +
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२५
दिखावट