77-81 ९८ सटीकामरकोशस्य उन्मत्तः कितवो धूर्ती सूरः कनकाह्वयः ॥ ७७ ॥ मातुलो मदनचास्य फले मातुलपुत्रकः ॥ फलपूरो बीजपूरो रुचको मातुलुङ्गके ॥ ७८ ॥ समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः || जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ ॥ ७९ ॥ सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः || अर्काह्नवसुकाऽऽस्फोटॅगणरूपविकीरणाः ॥ ८० ॥ मन्दारश्चार्कपर्णोऽत्र शुक्लेग्लर्कप्रतापसौ || शिवमल्ली पाशुपत एकाष्ठीलो बुँको वसुः ॥ ८१ ॥ [वनौषधिवर्गः पुण्डरीशो धुस्तुरः कनकाहयः” इति शब्दार्णवः । “उन्मत्त उन्मादवति धुतूरमुचु- कुन्दयोः” इति विश्वप्रकाश: । “मदनः स्मरवसन्तद्भुमिद्धूस्तूरसिडकः” इति मे- दिनी | कनकायः ॥ ७७ ॥ मातुलः मदनः सप्तकं धतूरस्य धोतरा इति ख्यातस्य । कनकाइयः स्वर्णपर्यायनामकः । अस्य घचूरस्य फले मातुलपुत्रक इत्येकम् । फलपूरः बीजपूरः रुचक: मातुलुङ्गकः चत्वारि मातुलिङ्गस्य महाळुंग इति ख्यातस्य ।। ७८ ।। समीरण: मरुबकः प्रस्थपुष्पः फणिजक: जम्बीरः "जम्मीर: " पश्च देशान्तरे जंनीर इति ख्यातस्य । स्वल्पपर्णस्य पर्णासभे- दस्य श्वेतमरवा इति च ख्यातस्य । पर्णासः कठिअरः कुठेरकः त्रीणि पर्णासस्य । आजवलेति बावरी इति च ख्यातस्ख ॥ ७९ ॥ अत्र पर्णासे सिते काण्डपुष्पाभ्यां श्वेते अर्जक इत्येकम् । पाठी चित्रकः वहिसंशकः । त्रयं चित्रकस्य चिता इति ख्यातस्य । तत्र पाठी इअन्तः । वहिसंज्ञको वहिपर्यायनामकः । अर्काहः वसुकः 'वसूक: " आस्फोट: “आस्फोतः ” । “ आस्फोतस्तु पुमानर्के पर्णे स्यात्कोविदारकः " इति मेदिनी | ग णरूप: गणाः बहूनि रूपाणि यस्य | नानात्वात् । विकीरणः “विकि- ॥ ८० ॥ मन्दारः अर्कपर्णः सप्तकं अर्कस्य रुई इति ख्यातस्य । अर्काहयः सूर्यपर्यायनामकः । अत्रार्के शुक्ले अलर्क: प्रतापसः इति द्वे शिवमली पाशुपतः एकाष्टील: बुकः “बकः ” । “बकस्तु बकपुष्पे स्यात्कद्वे श्रीदे च रक्षसि " इति विश्वप्रकाशः । वसुः पञ्च बुकस्य " रुईमन्दार । Digitized by Google
पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०६
दिखावट