पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ६६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।

 राजा- (कर्ण दत्त्वा ) अये, दक्षिणेन वृक्षवाटिकमालाष इव श्रूयते । यावदत्र गच्छामि ।(परिक्रम्यावलोक्य च ) अये,एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते । ( निपुणं निरूप्य) ! अह, मधुमासां दर्शनम् ।


भाषा ।' सहीओ'; इयत्र प्रथमम् 'द्विवचनस्य बहुवचनम्' इति सूत्रे औकारस्य जसि जाते ’ 'जश्शसोः' इत्यनुवर्तमाने ‘ स्त्रियमुदोतौ वा' इतेि जस ओकारः । ‘हृः’ इत्यनुवर्तमाने 'खघथधभाम्’ इति खस्य धः।कचित् ‘सह’ इति पाठः } स तु विकिल्पपक्षे जसो लोपे ज्ञेयः । दक्षिणेन । वृक्षवाटिकामिति ‘एनपा द्वितीया’ इति द्वितीया । स्वप्रमानुरूपैरिति स्वशब्देन प्रमाणपदसाहचर्यात्सामर्थ्यं लक्ष्यते। तस्य प्रमाणं भानं तदनुरूपैः। स्वशक्तियोग्यैरित्यर्थः। प्रमाणं भानशास्त्रयोः इति वरणिः। निरूप्य दृष्ट्वा। अहं इति विस्मये ।सौन्दर्यातिशयदर्शनेन विस्मयः । दृश्यते यत्तदर्शन स्वरूपम् ।"कृत्यल्युटो बहुलम्" इति ल्युट् । मधुरं प्रियम् । हृदसंगममिति यावत् । ‘मधुरं रसवत्स्वादु प्रियेषु


सहिओ इत्यत्र द्विवचनस्थाने बहुवचनं नाकृते द्विवचनस्य बहुवचनामनुक्तत्वात् । अत्र सखिशब्दस्त्वन्योन्यागोपनीयविश्रमालापादिसिद्धश्रमिति ज्ञातव्यम् । कणं सत्व श्रवणं निधाय । अये इत्यादि । अये इति हर्षे वृक्षवाटिका दक्षिणेन । वृक्षवातिकाया दक्षिणभागे । एनपा द्विनय' इति द्वितीया । न ल: भाषणम् । । एता इत्यादि । स्वप्राणानुरूपैगंगशक्तिसदृशैः अभिवर्तने 4भन्न : - !i। अत्र कविना शकुन्तलायाः वृक्षसेचनकल्पनं सर्वावयवदशनाथमित्यन्वयः। निरूप्याभिनीय । अहो। इत्यादि । अहो इत्याद्यर्थे । मधुरं मधुवन्मधुरम् । मधु यथा। इन्द्रिय प्रीणनकरं तद्वदासां दर्शनमपाति भावः । "मधु माधुर्ये नद्योगान् ’ ऊपभुपिः मुष्कमधो रः इति रप्रत्ययः । दर्शनमिति । दृश्यत इतेि दर्शनं रूपलावण्यादि । अहो आश्चर्याविषयभूतं लोकोत्तरचमत्कारकारित्वात् । अनेन नायिकालवनगुणा मधुरादयः उक्ताः । तदुक्तम् ‘’ मधुराः सुकुमाराश्च रूपयौवनशालिनः । श्रृंगारलावण्य भावास्तरुणीतरुणादयः। " इति । यद्वा दृश्यतेऽनेनेति दर्शनं कटाक्षविलोकनादि मधुरं श्रृंगाररेखाभिव्यंजकम् । अहो अकृत्रिममनोहरवादाश्चर्यभूतम् । यदा दृश्यत इति दर्शनं शरीरलवण्यादिगतम् । मधरमतिशश्रितरसवम् । ‘मधुरं रसत्रमधुरखान्॥ सदेवी