पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ४३ )
टीकाद्वयसहितम्।


हः। ‘म्रज्ञार्णः ’ इति ज्ञस्य णः ' नो णः ' । इति णत्वम् । ‘शषोः सः ' इति सः । ‘कगच- ’ इति ककारलोपः । 'अपुव्वम् ’ इत्यत्र


र्शनौत्सुक्यं ध्वन्यते । तेन प्रकृतनाटकस्येतरप्रबंधविलक्षणरसभरितत्वेन प्रयोगार्हत्वं व्यज्यते । तेन रसप्रबणतया प्रकृतनाटकस्य व्यंग्यप्राधान्यं तेन कांतासम्मितत्वं च व्यज्यते तदुक्तम्- "वेदेतिहासकाव्यानां कार्याकार्यविनिर्णये । उपदेशप्रभुसुहृत्कांतानामिव दृश्यते।" लोके वेदा इतिहासपुराणानि काव्यानि च यथाक्रमं प्रभव इव सुहृद इव कांता इव हिताहितं च शृण्वद्भ्य उपदिशंति । अज्ञानां शब्दार्थयुगलमेलनेऽपि शाब्द एव भागे प्राधान्यं नार्थे । वाङ्मात्रेण प्रभुरिव वेदोऽपि विधनिषेधबलेन पुंसां प्रवर्तको निवर्तकश्च । प्रभुः विक्षेपे दण्डयति वेदस्तु प्रत्यवाय जनयतीति शब्दप्राधान्यम् । प्रत्यवायजनकत्वं च वेदस्य स्वरवर्णयोरन्यथोच्चारणेऽपि दुरितश्रवणादन्यथानुष्ठानेऽननुष्ठाने वा । पुराणानामर्थवादानुप्राणनत्वादार्थ एवांशे प्राधान्यं न शाब्दे। "ध्वनिप्रधानं काव्यं तु कांतासंमितमिष्यते । शब्दार्थौ गृणतां नीत्वा व्यंजनप्रवण यतः ॥ काव्यं हि पाठस्वरनैयत्यविधायकत्वार्थवादात्मकार्थपरत्वाभावाच्छब्दप्राधान्यमर्थप्राधान्यं च परिहृत्य शब्दार्थावुभावप्युपसर्जनीकृत्य व्यंग्यभूतरसादिग्रहणोपायव्यंजनव्यापारप्रवणं तस्माद्ध्वनिप्रधानम् । तच्च प्रभुसंमितत्वसुहृत्संमितत्वपरिहारेण कांतासंमितं चेष्यते क्रमेणैतत्समर्थयते । "आस्वादयेरन् रसिका रसा ह्यत्र प्रतिष्ठिताः । इत्थंविधिः स्वरो वात्र श्रूयंते न श्रुताविव ॥ रामादिवद्वर्तितव्यं न त्वया रावणादिवत् । इत्यर्थो व्यपदेशोऽपि न पुराणेतिहासवत् ॥" "काव्ये श्रुताविवोदात्तानुदात्तादिरूपाः स्वराश्च न श्रूयते । “त्रिराचामेद्विः पारिमृज्य” इतिवत् । रसिका रसानास्वादयेयुरिति विधिरपि न श्रूयते। तस्माच्छब्दप्राधान्यं प्रभुसंमितत्वं च न भवति । सद्वृत्तानुसारी रामश्चिरं जीवति स्म असद्वृत्तस्तु रावणो नष्टः तस्माद्दीर्घं जिवितुमिच्छंस्त्वं च राम इव वर्तस्व रावण इव न वर्तस्वेति सुहृत्संमितेतिहासादिवदर्थवादरूपो व्यपदेशोऽपि काव्येन श्रूयते । तस्मादर्थप्राधान्यं सुहृत्संमितत्वं च काव्ये न स्तः। उभयरूपमपि न चेत्काव्यं तर्हि किंरूपमित्यत आह - "काव्यं नेतृगताखण्डतत्तद्रसनिरंतरम्" काव्यं हि मानसादिकं रस इवाधारभूतनायकगताखंडतत्तच्छृंगारादिरसनिरंतरम् । तस्मात्काव्यनिबंधानां रससंमितलक्ष्मणां प्रतीयमानप्राधान्यं प्राक्तनैः प्रतिपादितम् । काव्योपदिष्टस्यार्थस्यामृतादिवत्स्वीकरणीयत्वेन प्रतिपादनात् कांतासंमितलक्ष्मणां तेषां काव्यानां रसश्रवणतया व्यंग्यप्राधान्यं प्राक्तनैरानंदवर्धनादिभिराचार्यैः प्रतिपादितम् । किंच व्यापारप्राधान्ये व्यापारशब्दे भेदसिद्धिः । वस्तुचिंतायां शास्त्रदेरपि काव्यमुखप्रेक्षितया कार्यकारित्वमित्युपनिषत् । यथाह-" स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुंजते । प्रथमालीढमघवः पिबंति कटुभेषजम् ॥ ” इति । अत एव प्रयोगेणाधिक्रियतामित्यनेन सामाजिकानामादरवत्तया प्रकृतनाटकस्य प्रयोगार्हत्वम् । तेन व्यंग्यप्राधान्यमुक्तं भवति । अनेकसभ्यानां प्रार्थकत्वमुक्तम् ।