पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


इसिशब्देन तत्सन्धिः । अवतंसयन्तीत्यत्र ‘ओत्’ इत्यनुवर्तमाने ‘अवापोते च’ इत्यनेनावस्य ओआदेशः। अयं त्रिंशन्मात्रयाद्वयरूपो द्विपदीनामा लयभेदः । तदुक्तमादिभरते - 'वक्ष्ये भङ्गादिसंभिन्नं नाट्यगानमतः परम्। मध्यमोत्तमपात्राणां नाटके सिद्धिदायकम् ॥’ इत्यादिना द्वादशभङ्गाः षडुपभङ्गा द्विचत्वारिंशल्लयभेदाश्चोक्ताः । तत्र द्विपदनामा प्रथमो लयभेदः । तल्लक्षणं तत्रैव - 'विलम्बितलया यत्र गुरवो द्विपदी तु सा । शृङ्गारे करुणे हास्ये योज्या चोत्तममध्यमैः ॥ अवस्थान्तरमासाद्य गातव्या साधमैरपि ।' इति । अत्र गुरुस्तालरूपी ज्ञेयः । ग्रामरागे ढक्काख्येन चास्य बन्ध इति ज्ञेयम् । इयं च गीतिः । तल्लक्षणं शम्भौचाअच्चखघाद्धे उदारस्थम्मिणविसम्मस्तगुरुसत्तद्धगीइ अद्धे' इति ।


रसानामुभयाश्रितत्वम् । अन्येषामककालैवनत्वमितुक्तत्वात्त्र शिरीषकुसुमानि भ्रमरैश्चुम्बितानीत्युक्ते पुष्पभ्रमरझंकारादयः उद्दीपनविभावाः । तदुक्तम् - "चन्द्रोदयो वनध्वानं गीतभृंगरुतादयः । केलीगृहाणि ऋतवः स्रक्चन्दनविलेपने । वनादि वाप्यः कर्पूर उद्दीपक इति स्मृताः ।" इति । दयादयः संचारिंणः । तदुचितकटाक्षदयोऽनुभावाश्च । एवंविधविभावानुभावसंचारिपरिपुष्टो माल्याद्युचितनैपथ्यवान्संभोगशृंगारो ध्वन्यते । तदुक्तम् भरतेन - "विभावानुभावसञ्चारिसंयोगाद्रसनिष्पत्तिः" इति एतत्किञ्चिद्विवॄण्वते । विभावा आलिगनोद्दीपनरूपाः कारणानि । अनुभावाः कटाक्षभ्रूविक्षेपादयः कार्यरूपाः स्थायिनां रसानाम् संचारिणां चानुमापकाः संचारिणो रसपरिपोषकाः निर्वेदादयो भावाः सहकारिरूपाः । तेषां संयोगः परस्परसम्बन्धः । विभावानां लौकिकरसापेक्षया कार्यकारणभावाः । अनुभावानां गम्यगमकभावः । संचारिणां पोष्यपोषकभावः । नाट्यतन्त्रेषु सर्वेषामेव भावानामभिव्यञ्जकत्वलक्षणं कारणत्वमेव । तदुक्तम् भावयतीति भावो भावमनुवृत्तमेतेष्विति । एवंविधात्सम्बन्धाद्रसनिष्पत्तिः । रसस्य संविद्रूपस्यानन्दस्य निष्पत्तिरव्यक्तिः । नतूत्पत्तिरनुमितिज्ञप्तिभावना वा । तदुक्तम् - "व्यक्तः स तैर्विभावाद्यैः स्थायिभावो रसः स्मृतः" इति । सात्विकभावः अपि व्यंजका एव । कटाक्षभ्रूविक्षेपादयोऽनुभावाः । विक्षिप्तचित्तैरपि नटादिभिरभिनेतुं शक्यन्ते । स्वेदरोमाञ्चादयः सात्विकभावास्तु समाहितचित्तैरेवाभिनेतुं शक्यते इति । अनुभावेभ्यः सात्विकानां भेदः । स्थायिसंचारिणां साक्षाचित्तपरिणामरूपत्वात्सात्विकानां स्तंभस्वेदादीनां चित्तपरिणामद्वारा शरीरपरिणामरूपत्वाच्च । सात्विकेभ्यः स्थायिसंचारिणां भेदः । रसस्वरूपं मदीये मालविकाग्निमित्रीयव्याख्याने द्रष्टव्यम् । अत्र ईषच्चुम्बितानीत्यादिना प्रवर्तकं नाम आमुखांगमुक्तम् ॥ उक्तं च - "प्रकृतोचितकालेन समानगुणवर्णनात् । प्रवर्तकं स्यात्पात्राणां सूचन्ं रसवत्तरम् ॥" इति । अत्र ग्रीष्मर्तुलिङ्गशिरीषकुसुमवर्णनद्वारा सकलगुणविशिष्टप्रकृतनायिकापात्रसूचनं कृतम् । आमुखलक्षणमु-