पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ३७ )
टीकाद्वयसहितम्।

[ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥]


ईसीसि ईषदीषदुम्बिआई भमरोहिं चुम्बितानेि भ्रमरैः सुउमारकेसरसिहाई सुकुमारकेसरशिखानि । ओदंसयन्ति अवतंसयन्ति दअमाणा दयमानाः पमदाओ प्रमदाः सिरिसकुसुमाई शिरीषकुसुमानि ।सुकुमाराः केसराणां शिखा अग्रभागा येषु तानि । अग्रभागेष्वेव भ्रमरचुम्बनसंभवात्तदुक्तिः । यतः कोमलकिञ्जल्काग्राण्यत एवैषच्चुम्बितानीति द्विरुक्तिः । अत एव दयमानाः सकृपाः | अकठोरं स्पृशन्त्य इति यावत् । प्रकृष्टो मदो रूपसौभाग्यजनितो विकारो यासां ताः तासामेव तथाविधलंकारकर्तव्यतायोग्यत्वाच्छकुन्तलासूचकत्वाच्च न विशेषपरिवृत्तत्वदोषावकाश वृत्यनुप्रासः काव्यलिङ्गम् । ईषच्छब्दे -‘ईषदादिष्वित' इत्यनेन षकारस्थकारस्येकारः । 'शषोः सः' इति सत्वम् 'अन्त्यस्य हलः' । इति तकारलोपः । तेन इसि [इति] सिद्धम् । पश्चाद्वीप्सायां द्वितीयेन


यद्वा भ्रमरैरीषच्चुम्बितत्वेन कोमलकिंजल्काग्रत्वेनच प्रत्यग्रविकस्वरत्वं द्योत्यते तेन चामोदवत्ता । सौरभादिबाहुल्याद्भ्रमराणां तथोपभोग्यता । यद्वा भ्रमरैरीषच्चुम्बितानीत्यनेन शिरीषाणामितरपुष्पविलक्षणसौकुमार्यादवस्थितिदार्ढ्याभावाद्भ्रमरा उड्डीयमाना एव चुम्बन्तीति ध्वन्यते । तेन ईषच्चुम्बनं लभ्यते । शिरीषाणां स्वाभाविकसौकुमार्याद्दयमाना इत्युक्तम् । करस्पर्शमात्रेणापि म्लानतासम्भवात्सुकुमारवस्तुनो दयाविषयतासम्भवत्वाच्च । अवतंसयन्ति कर्णपूरं कुर्वन्ति । "पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे" इत्यमरः । कर्णाभरणत्वकथनेन केशपाशसंमर्दनासहिष्णुत्वं ध्वन्यते । अत्र शिरीषकुसुमवर्णनया तदुद्भवकाले ग्रीष्मो वर्णितः । तत्समानधर्मतया पात्रसूचनमपि व्यज्यते । भ्रमरैरीषच्चुम्बितानीति प्रकृतनायकस्य नायिकान्तरसद्भावः । यद्वा नायिकायाः कन्यकात्वेनाप्रगल्भतया यौवनजनितविलासाल्पता ध्वन्यते । किञ्चिदुत्थितकटाक्षविक्षेपादिविविधविलासत्वमित्यर्थः । सुकुमारकेसरशिखानीत्यनेन करतलांगुलिप्रभृतितत्तदवयवानामतिसौकुमार्यं व्यज्यते । शिरीषकुसुमत्वारेपेणातिशयोक्त्यलंक्ररेणापह्नवालङ्कारेण वा नायिकायाः पद्मिनीजातिता सूच्यते । प्रमदानामवतंसकरणेन सर्वनायिकाश्र्यैष्ट्यं व्यज्यते । किं च अवतंसयन्तीत्यनेन नायिकानायकयोः कुलाचरादिश्रवणस्य कर्णरसायनता ध्वन्यते । । शिरीषकुसुमकनीत्यनेन शिरीषकुसुमस्येतरकुसुमविलक्षणसौकुमार्यवत्तया प्रकृतनायिकाया इतरस्त्रीविलक्षणलोकातीतविचित्रबहुगुणयोगितया नायकस्यानुरागविषयता सूच्यते । अनेन प्रकृतश्रृंगाररसोऽपि दर्शितः । तथा हि प्रमदा इत्यालंबनविभावः । शृङ्गारे नायिकानायकावलंबनविभावैौ । वीररौद्रयोर्नायकप्रतिनायकौ । एवं त्रयाणां