पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


नटी - तह । [तथा] (इतेि गायते)

ईसीसि[१]चुम्बिआई भमरेहिं सुउमारकेसरसिहाइं ।
ओदंसयन्ति दअमाणा पमदाओ सिरीसकुसुमाई ।। ४ ।।


साभिप्रायत्वं परिकर' इति तल्लक्षणम् । ननु विशेषणसाभिप्रायत्वे ध्वनिविषयत्वमेव स्यान्न परिकरालंकारत्वमिति चेत् । प्रसन्नगम्भीरपदारब्धत्वेन प्रतीयमानांशस्य वाच्यमुखप्रेक्षित्वात्परिकरालंकारत्वमेव ध्वनितम् । तथा च गुणीभूतव्यङ्ग्यनिरूपणं ध्वनिकारः - 'प्रसन्नगम्बीरपदाः काव्यबन्धाः सुखावहाः । ये च तेषु प्रकारोऽयमेवं योज्यः सुमेधसा ॥' इति । स्वभावोक्तिश्च । श्रुतिवृत्त्यनुप्रासौ । इयं चाचेतनग्रीष्मसमयस्तुतिः । तहत्ति तथेति । गीयत् इत्यर्थः । गायतीति कविवचनम् । तथा शब्दस्य तह इत्यनुवर्तमाने 'स्वघथधभां हः' इत्यनेन थकारस्य हकारः । 'वाव्ययोत्खातादावदातः' इत्याकारस्य अदादेशः । 'तस्मादिति च परे लुक्पदादेः' इत्यनुवर्तमाने 'इतेः स्वरात्तश्च द्विः' इत्यनेनेकारास्य लोपः । तकारस्य द्वित्वम् । 'तह इति' इति पाठे गायतीति कविवचनम् । भारत्या वृत्तेरामुखापरपर्यायं प्रसतावनालक्षणं द्वितीयमङ्गमुपक्षिपति - 'ईसीसि' इत्यादिना 'निष्क्रान्तौ' इत्यन्तेन ॥३॥ [ईसीसि इति]


सिद्धान्बहून्प्रधानार्थानुक्वा यत्र प्रयुज्यते । बिशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ "इति । प्रधानोपयोगिनां बहुविशेषणानां कथनं विशेषणं भवति । एतावलंकारौ षट्त्रिंशदलंकारेषु भवतः षट्त्रिंशदलंकाराः निरूप्यन्ते । “भूषणाक्षरसंघातौ शोभोदाहरणे तथा । हेतुसंशयदृष्टान्ताः प्राप्त्यभिप्राय एव च । निदर्शनं निरुक्तं च सिद्धं चाथ विशेषणम् । गुणातिपातातिशयौ तुल्यतर्कपदोगन्धः । । दिष्टं चैवापदिष्टं च विचारस्तद्विपर्ययः । भ्रंशश्चानुशयो माला दाक्षिण्यं गर्हणं तथा । अर्थापत्तिः प्रसिद्धिश्च पृच्छ सारूप्यमेव च । मनोरथश्व लेशश्र क्षोभश्च गुणकीर्तनम् ॥ ज्ञेया ह्यनुक्तसिद्भिश्च प्रियावचनमेव च ।” एते नाट्यालंकारा उत्तरत्र लक्षणेदाहरणाभ्यां यथासंभवं प्रदर्श्यते ॥ ३॥ तहेत्यादि । यथा नटेन सुभगसलिलेत्यादि श्रृंगाररसपरिपोषणग्रीष्मिर्तुधर्माः प्रतिपादिताः तथेति तान्धर्मानेवाधिकृत्य गायतीत्यर्थः। तदुक्तम् - "नटोक्तानां ततो गायेन्नटी प्रावेशिकी ध्रुवम्" इति ॥ अत्र भ्रमरैरीषच्चुम्बितत्वेन दरविकाशित्वं द्योत्यते । अत एव केसराणां सौकुमार्ये चिरविकासे तु केसराणां म्लानता भवति ।


१ इङ् िइ• पा० ॥

  1. इसिचुं इ. पा.