पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४४१ )
टीकाद्वयसहितम्।


 मातलिः-एवं दिदाताX प्रसीदन्ति ।
 राजा-भगवन्, इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयस्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रXत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वXस्य । पश्चादंङ्गुलीयकदर्शनादूढपूर्वी तद्दुXहितरमवगतोऽहम् । तच्चित्रमिव में प्रतिभाति |

यथा गजो नेति समक्षरूपे
तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीनिX
स्तथाविधो मे मनसो विकारः ॥ ३१ ॥

 मारीचः--वत्स, अलमात्मापाराधशङ्कया । संमोहोऽपि त्वय्यनुपपन्नः ! श्रूयताम् ।


वंशस्थं वृत्तम् । अनेन मधुरं नाम भूषणमुपक्षिप्तम् | तल्लक्षणं तु - ‘ यत्प्रत्ययेन मनसा पूज्यपृजयितुर्वचः | स्मृतिप्रकाशनं यत्तत्स्मृतं मधुरभाषणम् ।। ’ इतेि | विधातारः स्रष्टारः | व आज्ञाकरीमेत्यनेन विनयोक्तिः । उपयम्य विवाह्यX | स्मृतिशैथिल्यान्न तत्वतः स्मृतेरभावः | स्यायिन्या रतेरविच्छेदात्प्रत्यादिशन्निराकुर्वXन | तत्रभवतः पूज्यस्य | यथेति । समक्षरूपे गजेऽयं गजो न वेति संशयः स्यात् । तस्मिन्नपक्रामति गच्छाति सति पदानि भूमौ चरणचिह्नाXनि दृष्ट्वा यथा प्रतीतिर्निश्चयबुद्धिर्भवतेि गज एवायमिति । तथाविधस्तादृशो मे मनसो विकार आसीत् । निदर्शनानुप्रासश्च | द्वादश्युपजातिरिन्द्रवज्रोपेंद्रवज्रयोः | अलमितेि यथेति । यथा यस्य कस्यचित् मूढस्य प्रत्यक्षरूपे प्रत्यक्षीकृते गजे गजो नेति प्रत्ययः स्यात् । तदनंतरं तस्मिन् गजे अतिक्रामतेि संशयः गजो वा नवेति सन्देह: स्यात् । ततः पश्चात्पदानि तस्य गजस्य दृष्ट्वा गज एवायमिति सत्यज्ञानं भवेत् मे मनसो विकारस्तथाविधः तादृशः । पूर्वं विवादकाले किमिदमुपन्यस्तमित्वादिना शकुन्तलायाः परिग्रहाभावनिश्चXयः पश्चात्तस्थामंतरगतायां कामं प्रत्यादिष्टामित्यादिना परिगृहीता वा नवेति संशयः । अनंतरमंगुलीयदर्शनादियं परिगृहीतेति सम्यक् प्रतीतिरित्येवंXरूप इत्यर्थः । वत्सेत्यादि । समोहोऽपि संम्यङ्मोहः उपपन्नः । वत्सेत्यादिना अंगुलीयकदर्शनाव-


१ एनां इत्यधेिकं क० पु• पाठः । २ तदुहितरं इति नास्ति क० पु° पाठः ।

३ अपचर इत इ• पु० ' पाटः । ४ हेि त्वय्युपपन्न एव इति क० पु• पाठः ।