पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४३४ )
[ सप्तम:
अभिज्ञानशाकुन्तलम् ।


तं तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ २२ ॥

( इति यथोक्तमनुतिष्टति )

 शकुन्तला- (नाममुद्रां दृष्टा ) अज्ज उत्त, एदं ते अङ्गुलीअअं | [ आर्यपुत्र, इदं तेऽङ्गुलीयकम् ]


परमविवेकिना धर्मभीरुणा परमविदग्धेन दुष्यन्तेनेत्यर्थान्तरसंक्रान्तम् । मोहादज्ञानात्ते तव वाष्पावेन्दुः। जात्येकवचनम् । उपेक्षितो न मार्जितोऽत एवाधरं परितः सर्वत्र बाधमानः । स्थित इतेि शेषः । अनेन विन्दूनामनवरतपातिनास्थूलतोप्णताद्ययावस्थितिश्च ध्वनिता । तेन मार्जनकारण- सामयां सत्यमपि यत्तदनुत्पत्तिः सा विशेषोक्तिः । मोहादिति निमित्तस्योक्तपादुक्तनिमित्तता तावदादावादित्यकथनापेक्षया तं वाष्पं प्रमृज्य प्राश्य विगतानुशयो गतपश्वात्तापे भवेयम् । आशंसायां लिङ् । कीदृशम् । आ ईषत्कुटिलं यत्पक्ष्म तत्र विलग्नं संबद्धम् । अनेनास्य वाष्पस्य बिन्दुत्वाभावस्तदभावेनाधरपीडनाभावश्च ध्वनितः । ननु तस्य वाष्पस्यातीतत्वात्तमिति तच्छेषनिर्देशः कथमिति चेदुच्यते । यतश्चिरनुभूतान्यपि बन्धुदर्शनाज्जनस्य दुःखानि नवीभवन्तीत्युक्तदिशा एनं दृष्ट्वा तस्याः पूर्वदुःखस्मरणेन यो वाष्प उत्पन्नः स तच्छब्देन राज्ञा परामृष्टः । दुःखहेतुत्वादुभयोः । आकुटिलेति व्यतिरेकः । यतस्तदा शोकावेगवशाद्बिन्दुरूप एवोत्पन्नः । अधुना क्रमिकत्वात्तदवस्थास्य भाव इति बोद्धव्यम् । अत एतत्प्रमार्जनेन विगतानुशयत्वम्| इदमेवोद्धृतविषादशल्यत्वम् । यतोऽपराधादिनानुशयो हेि विषादः । तदुक्तं सुधाकरे --‘ अपराधपर ज्ञानादनुतापस्तु यो भवेत् । विषदः ’ इति । श्रुतिवृत्त्यनुप्रासौ । बसन्त तिलकं वृत्तम् । यथोक्तमनुतिष्टति । बाष्पमार्जनं करोतीत्यर्थः । तच्च त्रिपताकवनामिकयेति ज्ञेयम् । तदुक्तं संगातरत्नाकरे--' तन्मार्जने च स्यादधो यान्तीमनामिकाम् (?) । नेत्रक्षेत्रगतां बिभ्रत् ' इतेि । अनेन कथयिष्यामीति यदुक्तं तत्प्रसङ्गोऽप्युपदर्शितः । आर्यपुत्र, इदं


१ भवामि इति क्क • पु• पादः । २ मी (ननु ) इभ्यधिके ऊ• पु० ।