पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४३२ )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


 
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ २४ ॥


नृते ? इयमरः। अप्रियस्य हृदयात्त्यागेऽर्थतः सिद्धेऽपि पुनस्तद्रहणं विप्रियं मया त्यक्तमिति वाङ्मात्रेण न त्यागः । अपि तु तत्संकारोन्मूलनपूर्वकं त्याग इति ध्वनति । किमर्थमप्रियं कृतं तत्राह-किमपीषनोयस्यासौ किमपिमनास्तस्य किमपिमनसो मे मम तदा त्वद्दर्शनसमये बलवानधिक: संमोहोऽज्ञानमभूदिति विशिष्टं विधेयम् । तेन संमोहेन मन्मनःसमुन्मूलनं जातमित्यर्थः । तेन चित्ताभावात्कृतमिदं क्षन्तव्यमिति भावः । संमोहान्मनसमुन्मूलनं जातामित्यस्य शाब्दे विधेयत्वे वक्तव्ये पदार्थविधेयत्वं तत्संमोहस्य प्राधान्यद्योतनाय । तेन संमोहस्य मनोधर्मत्वान्मनसः संमोहो जात इत्यार्थे पैौनरुक्त्यं निरस्तम् । प्रबलेति | प्रबलतमसामधिकसंमोहानाम् । अत्र प्रबलतमःशब्देनाधिकशोक उच्यते । तज्जन्यः संमोहो लक्ष्यते । तदतिशयो व्यज्यते । अत एवोद्देश्यप्रतिनिर्देश्यप्रक्रममङ्गो नाशङ्कनीयः । ‘ तमः शोके गुणान्तरे ’ इति विश्वः | शुभेषु कार्येषु । एवंप्रायाः शुभत्यागरूपाः प्रवृत्तयो भवन्ति | इत्यर्थान्तरन्यासः । दृष्टान्तमप्याह-स्रजमिति । अन्धः शिरःस्थापिता परिधापितां स्रजं मालामप्यहिशङ्कया सर्पशङ्कया धुनोति तिरस्करोति ?


सुतन्वित्यनेन गाढालिंगनेच्छा द्योत्यते तेन च स्वशरीरसद्भावस्य स्वदीयालिंगनादिमत्वेन सफलत्वं एतावत्पयैतं तदभावात् स्वयं भाग्यहीन इति द्योत्यते । तेनानुशयो व्यज्यते हृद्यात् सर्वकरणप्रधानभूतचित्तात् । प्रत्यादेशव्यलीकं न्यक्कारजनिताप्रियम् । ‘‘अलौकत्वाप्रियेऽनृते ’’ इत्यमरः । हृदयादित्वनेन पश्चात्तापजनितमदीयशरीरकार्श्यवैवर्ण्यगद्गद- दैन्यवचनदर्शनश्रवणाभ्यां त्वदीयनेत्रश्रोत्रस्थितप्रत्यादेशव्यलीकं गतमिदानीं पादप्रणामेन हृदयस्थव्यलीकमपि गच्छत्विति भावः । तदा पञ्चमेऽङ्के त्वदागमनसमये | मे तादृगनुरागातिशयवतो ममेत्यर्थः । मनसः ज्ञानाधारकरणस्य न तु त्वदीयसौन्दर्यवचन- दर्शनश्रवणवैमुख्येन नेत्रश्रोत्रयोः । किंतु मनसः मनोवागक्ष्प्यगोचरं कारणशून्यमिति यावत् । अभूदिति भूतार्थेन तदानींतनसंमोहस्यानिर्वचनीयतया स्मरणानर्हता ध्वन्यते तैन निर्वेदः । ग्रवलतमसामिति बहुवचनं निर्वेदसूचकम् । एवमनुभवप्रकारेण प्रायो भूमा यासां ताः । शुभेष्वपि पूर्वजन्मान्तरोपार्जितसुकृताविशेषै: प्रार्थनीयसुखजनकवस्तुप्राप्ति- ष्वपि वृत्तयः व्यापाराः तदेव दृष्टान्तेन विशदयति । स्रजमपीति । अन्धः सर्वे-


१ हि वृत्तयः इति के० पु० पाठः ।