पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४३० )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला-( सहर्षम् ) जेदु जेडु अज्जउत्तो। ( इत्यर्धोक्ते बा- ष्पकण्ठी विरमति ) [ जयतु जयत्वार्यपुत्रः ]


गाढत्वमुक्तम् । ‘ तभस्तु राहुः स्वर्भानुः ’ इत्यमरः । उपमासाधकमन न्तरमेव वक्ष्यामः । स्मृत्या भिन्नं दूरीकृतं मोहतमो यस्य तस्य मे मम प्रमुखे संमुखे दिष्टया दैवेन हे सुमुखि, स्थितासि ! सुमुखीति साभि प्रायम् । सुमुखस्यैव संमुखे स्थातुं योग्यत्वात्कुमुखगोपनमेव करोतीति यत्तत् (?) उपरागन्ते ग्रहान्ते ।’ उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च' इत्यमरः । शशिनश्चन्द्रस्य रोहिणी नक्षत्रविशेषो योगं संबन्धं समुपगता । अत्र मुखेमुखीति सिमेसघिते छेकानुप्रासः । संदेहसंकरः । सकारादीनां अन्त्याक्षराणां मकारादीनामोष्ट्याक्षराणां बहूनां सत्त्वाच्छु- त्यनुप्रासः । अनेन स ( ?) पूर्वस्यैकवाचकानुप्रवेशलक्षणः संकरः। अर्थाभ्यां यत्तद्भयामेकवाक्यत्वात्संभवद्वस्तुसम्बन्धान्निदर्शनम् । मोहतम इत्येकदेशविवर्तिन्युपमाने तत्स्मृतेर्नियतत्वमप्युपमितम् । ततश्च विशेषण स्वेनापि योज्यम् । नियत्याभिन्नं मोहवत्तमो राहुर्यस्येत्युपप्रासा- धिका चात्र निदर्शनैव । अन्ये तु दृष्टान्तमेवाहुः । अन्ये साधक बाधकप्रमाणाभावादुभयोः संदेहसंकरमाहुः । । जयतु जयत्वार्यपुत्रः ।


मुमुखीति संबोधने । स्मृत्या मरणेन भिनं नष्टं मोह एव तमः यस्य स तथोक्तः । तस्य चंद्रपक्षे तमःशब्दो राहुवाचकः । उपरागान्ते योगं प्राप्तिं समुपगता रोहिणीवासीत्यनेन यथा चंद्रस्याश्वित्यादिकनक्षत्रेषु सत्स्वपि रोहिण्यामसाधारणोऽनुरागस्तथा भम बहुवल्ल- भत्वेऽपि त्वय्येवानुरागप्रकर्षः । त्वद्व्यतिरिक्तभार्या: संख्यामात्रपूरका इति भावः । तेन च स्वशरीरक्षामतादीनां शकुन्तलविरहनिमित्तकत्वं द्योत्यते । वर्तमानप्रत्ययेन शकुन्तला दर्शनानंतरमुत्तरक्षणे स्वस्य तद्विरहजनितकार्श्यवैवर्ण्यभ्रंशान्मुखशोभाप्रादुर्भावः प्रकाश्यते । सुमुखीति संबोधनेन शकुन्तलाया अपि दुष्यन्तदर्शनानंतरमुत्तरक्षणे देहतनुतादिवैवर्ण्य- भ्रंशान्मुखोभाप्रादुर्भावो राज्ञा सूच्यते । अनन हि तदीयमुखनिर्गतवचनश्रवणौत्सुक्यं च प्रकाश्यते न च तदीयप्रेमवीक्षणं ध्वन्यते । अयमर्थशकिमूलः संलक्षिको व्यंग्य:। तदुकं ‘‘ वाच्यव्यंग्यावगति: लक्ष्यो यत्र क्रमोऽनुरणानात्मा शब्दार्थो- भयशक्त्या त्रेवा संलक्ष्यकव्यंग्य:॥ * इति । कांस्यादीनामास्फालनसमयस- मुदीर्णप्राथमिकध्वनिसदृशी वाच्यार्थावगति: आस्फालनसमनंतरसमयश्रूयमाणध्वनिसदृशी व्यंग्यार्थवगतिः । इत्थं स्वकीयवचनश्रवणतात्पर्यै व्यंग्यमिति मनसि निधाय वदति । जेडु इस्यादि । जयत्वित्यर्धोक्ते अर्थस्य वाक्यैकदेशस्य उक्ते आर्यपुत्रे इत्यादि वाक्य-


१ ल्या सवाष्पीठं इति झo पु• पाठः