पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४२९ )
टीकाद्वयसहितम्।


 बालः- (भातरमुपेत्य ) अज्जुए, एसो को वि पुरिसो में पुत्त त्ति आलिङ्गदि । [मातः, एष कोऽपि पुओो मां पुत्र इयालिङ्गति
 राजा–प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृ- त्तम्, यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
 शकुन्तला--( आत्मगतम् ) हिअअ, अस्सस अस्सस। परिच्च- त्तमच्छरेण अणुअम्पिअ ह्मि देव्वेण । अज्जउत्तो क्खु एसो ; [ हृदय, आश्वसिहि आश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः ]
 राजा-प्रिये,

स्वृतिभिन्नमोहतमसो दिष्टया प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ।। २३ ॥


पश्चात्तापविवर्णत्वं हेतुस्वेन योज्यम् । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गोत्रसंसर्गेण दूषयति। मातः, एष कोऽपि पुरुष इति मामालि ङ्गति । अनुकूलः परिणामः परेपाको यस्य तत् । त्वं यदागतासि तद् मया न प्रत्यभिज्ञातासि । मयि पुनरागते त्वया प्रत्यभिज्ञात इत्यनुकूल- परिणामता । हृदय, आश्वसिहेि आश्चसिहे । परित्यक्तमत्सरेणानुकम्पि तास्मि दैवेन | आर्यपुत्रः खल्वेषः । अनेनानन्दनामकमङ्गमुपक्षिप्तम् तल्लक्षणं तु --‘ समागमस्तु योऽर्थानामानन्दः स तु कीर्त्यते ’ इति स्मृतीति। मोहस्तमो राहुरिख मोहतमः । अनेनोपमानेन राज्ञा तस्य दर्शनसमयेऽपि विभर्तीति विरहव्रतानुष्ठानस्याकृत्रिमत्वं व्यज्यते । प्रिये क्रौर्य- मित्यादि । प्रयुक्तं कृतं मे क्रौर्यमपि प्रस्थादेशक्रौर्यमपि अनकूलपांरपाकं संवृत्तं संजा- तम् । परस्परविरहजनितशरीरकार्श्यवैवर्ण्यादीनाममाभ्यामनुरागज्ञापकहेतुना दृष्टान्त त्वादनुगुणपरिपाकं जातम् । तदेव विशदयति-यदित्यादि । यद्यस्मात्कारणात् इदानीं हठाद्यादृच्छिकदर्शने सतीत्यर्थः । अयमहं पश्चात्तापजनेतकार्श्यर्युवैवर्ण्यादिक्लिष्टोऽहमिति यावत् । आत्मानं मां त्वया प्रत्यभिज्ञातम् । कुत्र वायमिति यश्चात्तापकार्श्यवैवर्यादिभिः ज्ञातं पश्यामि जानामि । तस्मादनुकूलपरिणाममिति संबन्धः । स्मृतिभिन्नेयादि


१ परकेरओ (परकीयः) इति क्र०पू०पाठः । २ स्मुपगतैवाशु इति क०मु० पाठः ।