पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२८ )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म आशामीदात्मनो भाग- धेयेषु । अथवा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् ?
 राजा-( शकुंतलां विलोक्य ) अये, सेयमत्रभवती शकु- न्तला यैषा

वसने परिधूसरे वसना
नियमक्षाममुखी धृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला
मम दीर्घ विरहव्रतं विभर्ति ॥ २१ ॥

 शकुन्तला-( पश्चात्तापविवर्णं राजानं दृष्ट्वा ) ण क्खु अज्जउत्तो विअ । तदो को एसो दाणिं किदरक्खामङ्गलं दारअं मे गत्तसंस रगेण दूसेदि । [ न खल्वार्यपुत्र इव । ततः क एष इदानीं कृत रक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ।


दमनस्यौपधिं श्रुत्वा न म आशासीदात्मनो भागधेयेषु । अथवा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् । अनेन समयाख्यमङ्गशुपक्षिप्तम् | तल्लक्षणम्--‘ दुःखस्यापगमो यस्तु समयः स निगद्यते ’ इति । वसन इतेि । परितः सर्वतो धूसरे नोज्ज्वले । इदमेव । विधेयम् । वसने अन्तरीयसं व्याने वसाना । नियमेन तपआदिना क्षामं कृशं मुखं यस्याः सा । अत्रा पावृतमुख्या मुखस्यैव दर्शनात्क्षाममुखीत्युक्तिः। अनेन नाभिगृहस्थिताव- प्यतिशयलज्जालुत्वं व्यज्यते । मुखापवरणं तु चिरतरकालतद्दर्शनोत्कण्ठया तदर्थमेव च प्रवृत्तेरितेि नानौचित्यम् । धृतैका वेणिर्यस्याः सा । यत एतादृश्यत एव शुद्धशीला शुद्धस्वभावा । अतेिनिष्करुणस्यातिशयकृपा- हीनस्य मम मत्संबन्धिनं दीर्घं बहुकालीनं विरहव्रतं विभर्ति । काव्यलिङ्ग- स्वभावोक्ती । वसवसेति सनेसानेतेि छेकानुप्रासवृत्यनुप्रासौ । वृत्तभनन्त रोक्तम् । ‘राजा--' इत्यादिनैतदन्तेन संधिर्नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु--‘ मुखबीजोपगमनं संधिरित्यभिधीयते ’ इतेि । न खल्वार्यपुत्र इव


सदृष्टत्वात् पूर्वाभाव इति सन्ध्यंगमुक्तं भवति “ पूर्वभावः स विज्ञेयो यत्तु कार्योपपा- दनम् ' ’ इति । वसनेत्यादि । शुद्धशीला न तु कृत्रिमशला । दीर्घं बहुकालव्या- पकम् । विरहिजनासह्यषङ्तुव्यापकमिति यावत् । बिभर्तीति वर्तमानव्यपदेशेन मम