पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
(४१९ )
टीकाद्वयसहितम्।


 द्वितीया - सुब्वदे, णसक्को एसो वाआमेत्तेण विरमाविदुं। गच्छ तुमं । ममकेरए उडए मक्कण्डेअस्स इसिकुमारअस्स वण्णचित्तिदो मित्तिआमोरओ चिट्ठदि । तं से उबहर [ सुव्रते, न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेय- स्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर ।  प्रथमा - तह। ( इति निष्क्रांता ) [तथा]  बालः - इमिणा एव्व दाव कीलिस्सं । (इति तापसीं विलोक्य हसति ) [अनेनैव तावत्क्रीडिष्यामि ]


यः प्रणयो याच्या प्रीतिर्वा तेन प्रसारित इति स्वभावाख्यानम् । तेन विना दर्शनासंभवात् । करो विभाति । जालवद्ग्रथिता अंगुलयो यस्य सः । उक्तं च पुरुषलक्षणे सामुद्रे – ’अतिरक्तः करो यस्य ग्रथितांगु- लिको मृदुः । चापाकुंशाङ्कितः सोऽपि चक्रवर्ती भवेद्ध्रुवम् ॥’ इति । एकं मुख्यं पङ्कजमिव ! तत्प्रथमविकासित्वान्मुख्यत्वम् ! कीदृक् । इद्धः समृद्धो रागो लौहित्यं यस्यास्तया । अनेनैतस्या विकाससामर्थ्यं ध्वनि- तम् । नवोषसा नूतनप्रातःकालेन नूतनत्वमजरठीभावः । ‘उप रात्रौ तदन्ते स्यादत्रानव्ययमप्युषा ' इति विश्वः । तेन भिन्नं भेदं प्राप्तम् । न तु सम्यग्विकसितम् । अत एवालक्ष्याणि पत्राणामन्तराणि संधिविभागा यस्य तत् । काव्यलिङ्गोपमे । प्रप्रेति त्रान्तरेति छेकश्रुतिवृत्यनुप्रासाः । अत्र बिम्बप्रतिबिम्बभावेनौपम्यादुपमाया भिन्नलिङ्गत्वं न सहृदयोद्वेग- करम् । प्रसारितमित्यस्य प्रतिबिम्बत्वेन भिन्नमित्युपात्तम् । तत्र बालक- करत्वात्सम्यग्विकासो नोक्तः | जालेत्यादेरलक्ष्येत्यादि (?) वंशस्थं वृत्तम् । सुव्रते इति तापस्याः संबुद्धिः । न शक्यो वाचामात्रेण विरमयितुम् त्वं गच्छ । ममकेरए मदीये । ’इदमर्थे केरः’ इति इदमर्थप्रत्ययस्य केरादेशे ’स्वार्थे कश्च’ इति के रूपम् । उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णै रक्तपीतादिभिश्चित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर । तह


याच्ञा तेन प्रसादतः करः जालग्रथितांगुलिः जालेष्वन्तरालेषु ग्रथिताः संश्लिष्टा अंगुलयो यस्य स तथोक्तः । इद्धरागया नवोषसा नवमुषः यस्याः सा नवोषस्तया प्रातःसन्ध्यया