पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१८ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


राजा -

महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ १५ ॥
प्रथमा - वच्छ, एदं बालमिइन्दअं मुञ्च । अवरं दे कीलणअं

दाइस्सं । [ वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।

बाल: – कहिं । देहि णं । ( इति हस्तं प्रसारयति ) [ कुत्र । देह्येतत् ।
राजा - ( बालस्य हस्तमवलोक्य ) कथं चक्रवर्तिलक्षणमप्यनेन

धार्यते । तथा ह्यस्य

प्रलोभ्यवस्तुप्रणयप्रसारितो
विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया
नवोषसा भिन्नमिवैकपङ्कजम् ॥ १६ ॥


तत्र विनियोगात् । तदुक्तं संगीतसुधानिधौ – विनिष्क्रान्तो विसृष्टः स्यादधरोऽलक्तकादिना । रञ्जने बालकानां च चेष्टाभेदे नियुज्यते । स्त्रीणां विलासबिब्बोकहर्षादिषु च कीर्तितः ’ इति । महत इति । अयं बाले महतस्तेजसो बीजं मूलम् । बाल्यान्महन्निगूढं तेजोऽस्मिन्वर्तत इत्यर्थः । स्फुलिङ्गावस्थया स्थितो वह्निरिव । महतस्तेजसो बीजमित्यस्य प्रतिबिम्बमेधापेक्ष इति । उपमानुप्रासौ । वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि काहिं कुत्र । देहि णं । ‘त्वदोणः स्यादौ क्वचित् ’ इति णादेशः । प्रलोभ्येति । प्रलोभ्यं प्रलोभकारकं यद्वस्तु तत्र


त्यधरं दर्शयति । अधरदशनमनादरे । महत इत्यादि । तेजसः तेजस्विनः तेजश्शब्देन तेजस्वी लक्ष्यते । तथा रघुवंशे “ तेजसां हि न वयः समीक्ष्यते ’ इति । एधांसि इन्ध- नानि । प्रलोभ्यवस्त्वित्यादि । प्रलोभ्यं प्रकर्षेण स्पृहणीयं वस्तु द्रव्यं तस्मिन् प्रणयो ।


१ पुत्रोऽयं इति क्व ० पु० पाठः । २ एधोपेक्षः इति क्व ० पु० पाठः। ३ कीलणिअअं (क्रीडनीयकं ) इति क्व० पु० पाठः ।