पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः७]
( ४०७ )
टीकाद्वयसहितम्।


 मातलिः --

त्रिस्रोतसं बइति यो गगनप्रतिष्ठां
ज्योतींषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमानिस्तमस्कं
वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ ६ ॥

त्रिस्रोतसमिति । यो मार्गे गगने प्रतिष्ठा स्थितिर्यस्या एवंभूतां त्रिस्रोतसं गङ्गां वहति । तथा च विष्णुपुराणे–" विष्णोबिंर्भात यां भक्त्या शिरसाहर्निशं ध्रुवः । ततः सप्तर्षयो यस्यां प्राणायामपरायणाः ॥ तिष्ठंति वाचिमालाभिः सिच्यमानजटाजले । वायेवं संततैर्यस्याः प्लावितं शशिमण्डलम् । भूयोऽधिकतमां कांतिं वहत्येतदहःक्षये । मेरुपृष्टे वहत्यु चैर्निष्क्रांता शशिमण्डलात् ।’ इति । यो मार्गः । प्रविभक्ता रश्मयोऽथद्वायुरूपा एव यत्र कर्मणि । ज्योतींषि ध्रवादिनक्षत्रान्तानि वर्तयति परिभ्रमयति । तथा च विष्णुपुराणे--'सूर्याचंद्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमथैर्मन्त्रैर्जीवैर्बद्धानि तानि वै ॥" इति । तथा ‘ग्रहक्षतारविष्ण्यानि ध्रवे बद्धान्यशेषतः। भ्रमन्त्युचितचारेण मैत्रेयानिलराश्मिभिः ॥ " इति । तस्य परिवहस्य परिवहनाम्नो वायोरिमं मार्गे वदन्ति । द्वितीयो हरेर्वामनावतारे विक्रमः पादनिक्षेपस्तेन निस्तमस्कं पापरहितं शोकरहितं च । तमोऽन्धकारे स्वर्भानौ पापे शोके गुणांतरे ’ इति हैमः । तदुक्तं वामनपुराणे-‘क्रमत्रये तोयमवेक्ष्य दत्तं महासुरेंद्रण विभुर्यशस्वी ! चक्रे ततो लंघयितुं त्रिलोकं त्रिविक्रमं रूपमनन्तशक्तिः । कृत्वानुरूपं


स्कृतत्वात् प्राम्यत्वेन न प्रतीयते । त्रिस्रोतसमित्यादि । यो वायुर्गगनं निरालंबः प्रतिष्टा आस्पदं यस्याः सा तां त्रिस्रोतसं मंदाकिनम् । ज्योतषि सप्तऋषीणां स्थानानि । प्रविभक्तररिम प्रविभक्ता असंकीर्यो रश्मयस्तेजांसि यस्मिन् कर्मणि तत्तथा । वर्तयति । संचारयाति । द्वितीयहरिविक्रमनिस्तमस्कं द्वितीयेन हरेर्विक्रमेण पदन्यासेन निस्तमस्कं निर्दोषम् । तस्य परिवहाख्यस्य वायोर्भागं वदन्ति । परिवहो नाम खगंगासप्तऋषिमंडलप्रवर्तकः षष्ठो बायुस्कंधः यथोक्तं ब्रह्मांडपुराणे ‘‘ आवहः प्रवहश्चैव संबहवोद्वहततः। विवह्रूयः परिवहः परावह इति क्रमात् ॥ सप्तैते मारुतस्कंधा महर्षिभिरुदीरिताः । आवहो वर्तयेद्वायुमेंथोल्कावृष्टिविद्युतः । वर्तयेत्प्रवदधाथ तथा मार्तडमंडलम् । वर्तयेबुद्धद्धापि वृथा नक्षत्रमंडलम् । संवहो मारुतस्कंधतथा शीतांशुमंडलम् । पंचमोऽपि