पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( २७ )
टीकाद्वयसहितम्।


करणैर्नानाभाषायुक्पात्रसंचयैः। अङ्कप्रवेशकैराढ्यत्दरसभावसमुज्ज्वलम् । सुखदुःखोत्पत्तिकृतं चरितं यच्च भूभृताम् । इति वृत्तं कथोद्धूतं किंचिदुत्पाद्यवस्तु च ॥ नाटकं नाम तज्ज्ञेयं रूपकं नाट्यवेदिभिः' इति


लंबनत्वेन भवितुं कल्पांतरस्थिरं लो कोसखर्थेननिपुणकविकर्मतया व्याप्तिमत्काव्यमेव प्रभवतीत्यर्थः । वस्तुस्वरूपमुच्यते - धीरोदात्तादिनायकचरित्तं वस्तु द्विविधं आधिकारिकं प्रासंगिकं चेति । अधिकरः फलसंबंधः तद्वानधिकारी तस्य चरितमाधिकारेकं प्रबंधक प्रधानफलभागिनो वृत्तमाधिक्रारिकमिति यावत् । यथा प्रकृते दुष्यन्तशकुंतलाचरितं । एवं सर्वनटकेषु प्रधाननायकचरितमाधिकारिकमिति द्रष्टव्यम् । प्रासङ्गिकं तु परार्थमागतस्य परप्रयोजनवशात्स्वस्यापि फलप्राप्तिमतो वृत्तम् यथा रामायणे सुग्रीववृत्तान्तः । तत्प्रासङ्गिकं द्विविधम् । पताका प्रकरी चेति । यदंगमाप्रबंधसमापनमनुवर्तते वा पताका यदंगमेकदेशस्थं सा प्रकरी । एतदधिकारकं प्रासंगिकुम प्रत्येकं त्रिविधम् । पुराणा दिप्रसिद्ध कविकल्पितमुभयरूपं चेति । तत्राद्यं दुष्यन्तशाकुन्तलचरितम् ॥ द्वितीयं तु मालविकाग्निमित्रीयम् । तृतीयं तु विक्रमोर्वशीयम् । भरतमुनिशापजनितभूलोकवासस्य कविकल्पितत्वादुर्वश्याः । ननु सर्वथा इतिहासप्रसिद्धमेव यस्तु नाटकादिषु निबन्धनीयं मिश्रत्वकल्पना कथमिति चेन्न । तदुक्तम् ध्वनिकृता - "इतिवृत्तवशायातां त्यक्तत्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्यंतराभीष्टरसोचितकथोन्नय ॥ विधेयः" इति । तत्रेति वृत्ते यदि रसानुगुणां स्थितिं पश्येत्तां भङ्ग्यत्वापि सत्कविः स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् । नहि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजमितिहासादेव तत्सिद्धैः । कविना प्रबन्धमुपनिबध्नता सर्वात्मना रसपरतन्त्रेण भवितव्यम् । श्रोतॄणां व्युत्पत्तिः प्रीतिश्च यद्यपि स्तः तथापि रसपरवशतया प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमतेभ्यो वेदेभ्यो मित्रसंमितेभ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्यः कोऽस्य काव्यस्वरूपस्य व्युत्पत्तिहेतोर्विशेषः । जायासंमितलक्षणौ विशेष इति तु प्राधान्येनान्द एषोक्तः । एवमाधिकारिकं त्रिविधं प्रासंगिकमप्येकमेव त्रिविधम् । एवंविधवस्तुनः फलं पुरुषार्थः तत्र कार्यमित्युच्यते । तदपि प्रत्येकं वा फलं धर्मार्थविशिष्टो वा कामः धर्मविशिष्टोऽर्थविशिष्टो वा । तथा चोक्तम् - "कार्यं त्रिवर्गस्तच्छुद्धमेकमेवानुबन्धिभिः वा" इति । तदित्वादि ॥ यस्मात्कारणात्परिषदभिरूपभूयिष्ठा नाटकं चापूर्वं कालिदासग्रथितवस्तु च तस्मादित्यर्थः । प्रतिपात्रमित्यादि पात्रे पात्रे "अव्ययं विभक्ति" इत्यादिना वीप्सायामव्ययीभावः । पात्रलक्षणामुच्यते - "तन्वी रूपवती श्यामा पीनोन्न्तपयोधरा । प्रगल्भा सरसा चित्रा कुशला ग्रहमोक्षयोः ॥ चारी ताललयाभिज्ञा मण्डलाधिविचक्षणा । नातिस्थूला नातिकृशा नात्युच्चा नातिवामना ॥ सुदीर्घलोचना गीतवाद्यतालानुवर्तिनी । परार्घ्यभूषा संपन्ना प्रसन्नमुखपंकजा ॥ भावहावविलासाढ्या नर्तकी स्याज्जितश्रमा । नर्तकी पात्रमित्याहुर्गुणधारतया बुधाः ॥" इति । आधीयतां निधीयतां यत्नः सावधानता ।