पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४०६ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


मरुतां पथि वायुस्कंधे ? तत्र सप्त वायुस्कंधा आवहादयः । तन्मध्ये कतरस्मिन्मरुतां स्कंधे वर्तामहे । तदुक्तं सिद्धांतशिरोमणौ--‘ भूवायुरावह इह प्रवहस्तदूर्वं स्यादुद्वहस्तदनुसंवहसंज्ञकश्च । अन्यस्ततोऽपि सुवहः प्रतिपूर्वकोऽस्माद्वह्यापरावह इमे पवनाः प्रसिद्धाः ॥ इति ।


दानवः । सुरप्रतिपक्षविजातावाकृतिक्रियाभीषणविबिधमायाभिज्ञा इति यावत् । तेषां संप्रहारो रणं तस्मिमुत्सुकेन त्वरसिकोत्कठितेन असुरशब्देन मनुष्यविजातीयकथनात् सामभेददानानहितया दंडार्हता सूच्यते । मयेयेकवचनेन साहाय्यनैरपेक्ष्यात् स्वस्य युद्धवींरत्वं ध्वनितम् । वरलु युद्धदानदयभेदेन विविधः तस्योत्साहः स्थायी यदाह-'विभावैरनुभावैश्च सात्विकब्र्यभिचारिभिः। नीतः सदस्यरस्यत्वमुत्साहो वीर उच्यते। विरूद्धां राति हंतीति विरो विद्वद्भिरीरितः । अभीतिर्बहुभिर्युद्धेऽप्यसहायो रणे मदः ॥ हर्षः शस्त्रास्त्रघातेषु समरादपलायनम् । भीताभयप्रदानं च प्रपन्नस्यार्तिभंजनम् । एनं युद्धात्मको वीरस्तशैः कविभिरीडितः । अधुनामीप्सितानर्थान् प्रदायेच्छादिकं वहु । अर्थिनः पुनरायातम्खजनानितरानपि । यं मानयति दानेन वाक्येन मधुरेण च ॥ एष दानात्मको वीरः कथ्यते दानशालिभिः । व्याधिदारिद्रयशत्रादिक्षुत्पिपासादिपीडितान् ॥ अनुगुह्वति यः पाति स वीरः स्याद्वात्मकः । । वीरस्योद्दीपनविभावः विवेकाध्यवसाथ नयविनयबलपराक्रमशक्तित्रयप्रभावादयः । अनुभावस्तु स्थैर्यधेयंत्यागशोंचेंबशारद्यरामांचादयः 1 संचारिणस्तु धृतिमतिगर्वामर्षवेगस्टुत्यादयः । प्रकृते दुर्जयदानवः जयेन दुष्यन्तस्य बुद्धवीरत्वं फलितम् । दानवीरास्तु परशुरामबलिप्रभृतयः । दयावीरां हि जीमूतवाहनादयः। त्रिविधोऽपि वर उत्तमपुरुष एव । स तु धीरोदात्त एव भवति । धीरोद्धतस्तु धीरोदात्तगुणवैपरीत्येन प्रतिनायकेषु राक्षसादिषु वर्णनीयः । धीरेदत्तधीरोद्धतधीरललितधीरशान्ता इति चतुर्विधनयका अपि ततदवस्थावाचकः न तु नियतवृत्तयः । एतेषां प्रत्येकमनुकुलदक्षिणशठदृष्टभेदेन षोडश भेदा भवंति तेषां ज्येष्ठमध्यमकनिष्ठभेदेन प्रत्येक त्रैविधदष्टचत्वारिंशनायकभेदाः । एते च दिव्या अदिव्या दिव्यादिव्यास्त्रेति प्रचेकं त्रिविधा । ततश्चतुश्चत्वारिंशदधिकशतभेदा भवंति । अत एव मदीये नैषधानन्दे भणितं तथा हि " नेतुर्भदा नायिकानां च जातिश्रेष्टवस्थादेशकालानुरूपाः । कृत्वा संधीन्यंवनानां प्रणीतं प्राहुः प्राज्ञा नाटकं नाट्ययोग्यम् ॥ इति । दिव्यानां कुत्रापि संभोगो न वर्णनीयः । स्खःपातालसमुद्रीलंघनाद्युत्साहो दिव्यैचेव । अदिव्योतमेष्वपि क्वचिद्भवति । दिव्यादिव्येषुमथमपि प्रतिपादनीयम् । ननु कथं कुमारसंभवे महाकविन देवीसंभोगवर्णनं कृतमिति चेदुच्यते । दोषस्तु द्विविधः कवेव्युत्पतिङ्गते शकिङतश्चेति । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्छतत्वात् । कदाचित्र लक्ष्यते । यस्त्वशकिकृतो दोषः स झटिति प्रतीयते तस्मान्महाकवीनामयुत्पातितमप्यु तमदेवताविषयप्रतिषिद्धसंभोगशृंगारनिबंधनाथनचित्यमुत्तमदेवीविषयम् । शक्तितिर.