पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः७]
(४०५ )
टीकाद्वयसहितम्।


राजा- - मातले, असुरसंप्रहारोत्मुकेन पूर्वेद्युर्दिवमधशेद्दना न

लक्षितः स्वर्गमार्गः। कैतरस्मिन्मरुतां पथि वर्तामहे ।


चरितस्यालेखनासंभवादाह गीतक्षमं गतुं योग्यमर्थजातमर्थसमूहं विचिंन्य विचार्य त्वदीयचरिताने गीतनियद्वनि कुत्वा लिखन्तीत्यर्थः । क्वचित् ’ अर्थतत्त्वम् ’ इति पाठः । एवं विष्टिकर्तुबिशिष्टक्ररणविीष्टाधिकरणानिर्देषेन चरितलेखनस्य वर्णितयादुदात्तालंकारः | तेन तेषामेवंविधसदाशङ्गरसोपभोगयोग्यस्थितिस्त्वरप्रसादादिति वस्तु ध्वनितम् । अत्र विच्छित्तिशेषस्य यक्षकर्दमादेवंगकत्वेन निरूपणात्तस्य च प्रकृतोपयोगित्वाच्च परिणामालंकारश्च । श्रुतिवृत्त्यनुप्रासौ च । अष्टम्युपजातिरिन्द्रवनोपेन्द्रवज्ञयोः । महापुरुषवादस्य स्वस्तुतिश्रवणं लज्जाकरभसावपि तत्स्तुतेर्न विरमतीति राजा तस्य विषयान्तरसंचारं करोति । असुराणां दैत्यानां संप्रहार उत्सुकेन पूर्वेद्युर्दिवं स्वर्गं प्रत्यधिरोहत। स्वर्गमार्गे न लक्षितः । किं तु कुत्र वर्तत इति न ज्ञातमिति भावः ।


मंशुकेषु । अनेन यशसः सार्वकालिकम्वर्गवासिसकलकचिधिष्ठानवत्तया नूर्धन्यता प्रकाश्यते । त्वत्कीर्तेः कल्पलतास्तु प्रसिद्धविलक्षणचिरधयिजयस्तंभभर इति भावः । कल्पवृक्षेषु वस्त्राभरणादीनि विद्यन्त इति प्रसिद्धिः । लिसंनि कर्तश्चिरस्थायितासिद्धघर्थमक्षराणि निक्षिपंति । तदुक्तं दंडिना "आदिराजयशोर्थिवमादर्शं प्राप्य वाङ्ममयम् । तेपामसन्निधानेऽपि न स्वयं पश्य नयनि ॥" इति अन्यैमेहाकचिभिरप्युक्तं "किमप्यहिंस्रस्तव चेन्नोऽहं यशःशरीरे भव में दयालुः । एकान्नविध्वंसिषु मद्विधानां पिंडेष्वनास्था खलु भौतिकेषु । ” इति । पांचभौतिकस्य शरीरस्य नियतनश्वरत्वं कीर्तिशरीरस्य नियतस्थायित्वं च भणितम् । राज्ञस्तु क्षमार्जनोपायसांपरायवैवात्यक्षमारक्षणवर्धनदानादिरूपक्षमाभोग्यजन्याः सर्वा अपि कोर्नयश्चानुचितार्थत्यागोचितार्थस्वीकाररूपपदसंदर्भगुंफिताः कांक्षणीया भवंति तथात्रे हि न नश्यति । यथा रावणादिवधजनितापि रामस्य कीर्तिवर्मकिविरचितगतियोग्यरामायणकाव्येन स्थापिता । इदानींतनानामपि कवीनां स्विकार्यतया वाग्विषयत्वाद्यषि द्धिमधिगच्छनिं तस्माच्चैयाँदिजनितापि राज्ञां पदसंदर्येणैव स्थाप्यते । लिखंतति बूर्गमनव्यपदेशेन त्वदृष्टिपथ एवाद्यापि लिखेतीति चरिनस्यापारिच्छेद्यता प्रकाश्यते । असुरेत्यादि । पूर्वेद्युरित्यनेन दिवसान्तरव्यवधानाभावकथनादनायासेन राक्षसर्विजयरूपाक्षिप्रकारित्वं स्वस्य सुध्यते । तदुक्त्ं“ ‘ दक्षः क्षिप्रकारी ’ इति । एष धीरोदात्तनायकगुणो भवति । असुराः


१ सय इत्यधिकं क० पु० । २ तस्मात्कथय कतमस्मिन् इति इ० पु० फुटः १