पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४०४ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


मातलिः--सदृशमेवैतत् । ( स्तोकमन्तरमतीत्य ) आयुष्मन्,

इतः पश्य नाकषृष्ठप्रतिष्टित्स्य सौभाग्यमात्मयशसः ।

विच्छित्तिशेधैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ?
विचिन्त्य गीतक्षममर्थजातां दिवैकसत्वच्चरितं लिखान्ति ॥ ५ ॥


सदृशमेवेतत् । तवेत्यर्थः । तेनैतादृशमेव वक्तुमुचितमिति भावः । स्तोकमल्पमन्तरमवकाशमतीत्यातेऋभ्येति कविवचनम् । मातालिः पुनस्तस्यैव स्तुतिं विवक्षन्नाह--आयुष्मन्निति । नाकपृष्ठे स्वर्गतले प्रतिष्ठितस्य सर्वदा स्थिरत्वेन प्रतिष्ठां प्राप्तस्य । विच्छित्तीति । सुरसुन्दरीणां न तु सुरयोषितां विच्छितिषेरङ्गरागावशेषैर्यक्षकर्दमादिभिः । “ विच्छित्तिरङ्गरागेऽपि हरविच्छेदयोरपि ’ इति विश्वः । तैः स्वहस्तेन तासामङ्गरागं कृत्वापशेषितैरित्यनेन बच्चरितानामातप्रियत्वमासूचितम् । वर्णैवर्णकैः सितपीतादिभिरमी दिवौकसः कल्पलतांशुकेषु कल्पवल्लीवस्त्रेषु । एतेनैतदेवाधिकरणं तालेखनयोग्यमिति ध्वन्यते ! त्वच्चरितं त्वदवदानं लिखन्ति


न मातलिं प्रति दुष्यन्तस्योक्तिः । विच्छित्तिशेत्तिषैरित्यादि । सुरसुंदरीणां विच्छितिशेधे. विच्छित्तेरखशिरैः वर्णः कुंकुमकस्तूरिकादिवर्णकैः । विच्छित्तिर्नाम लेखनादिन अनादरेण स्तोकादनम् । उक्तं च “ स्वल्पोऽप्यनादरायासः कुंकुमादेः स्त्रमंडने । या परां जनचेच्छुभां सा विच्छितिरुदाहृता ।। ’ इति । अमा ये दुर्जयदानवगणाभिभूतास्ते अमी इति यावत् । दिवैकसः मनुष्येभ्योऽधिक़ः । कन्तदर्शिनः दिव्या इति यावत् । अर्थवन्धम् अथै राक्षसविजयादिकथा वध्यतेऽनेनेत्यर्थंबन्धः पदं तं गातिक्षमं गानयोग्यं सुकुमारमित्यर्थः । गैतिः ” शिशुर्जेत पशुवैति वेत्ति गीतिस्खरं फणी । ” इति न्यायेन सकलजन्तु श्राव्यशुद्धादिपंचविक्रिया । यदाह " गोपीपतिरनंतेऽपि वंशध्वनिवशं गतः । सामगीतिरसो ब्रह्म वणासका सरस्वती । किमन्ये यक्षगन्धर्वदेनदानवपत्रगाः । वनेयस्तृणाहारो वालः पयंकिकातले । रुदन्गीतामृतं पीत्वा हषोत्कर्ष प्रपद्यते । ब्रह्मानंदरसादेतदधिकं सप्रचक्षते ॥" इति । त्वच्चरितं तव युद्धवीरभूलकेन्द्रमनुष्यस्य तत्रैकाकितया ध्रिप्रविजयकारित्वाद्यपदानमिति यावत् । एकवचनेन चरितस्यानन्यविषयतया अद्वितीयत्वं ध्योत्यते । कल्पलतांशुकेषु स्वर्गसद्भावाविना भूतकल्पलतानामङीषु पृष्टपु । अनेन कीर्तेश्वरस्थायित्वं व्यज्यते । यद्वा स्वर्गवासिनां स्त्रीपुंसां विविधमाल्याभरणवन्नांगलेपपुष्पापचयनावतंसविहरणवसप्रदानसमर्थंकल्पलताना


१ संचिंत्य गीतिक्षममर्थयंधं इति झ० पु० पाठः ।