पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४०३ )
टीकाद्वयसहितम्।


राजा-अत्र खलु शतक्रतोरेव महिम स्तुत्यः ।

सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किंवाभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणों धुरि नाकरिष्यत् ॥ ४ ॥


उपमाकरणप्रयोजनं पूर्वमेवोक्तमिति हीनोपमापि नःशङ्कनीया । द्रुतविलम्बितं वृत्तम् । सिध्यन्तीति । महत्स्वपि कर्मसु कार्येषु नियोज्या सेवका यसिध्यन्ति कार्यनिष्पादका भवन्ति । ईश्वराणां प्रभूणां यत्संभावना गौरवं तस्य गुणं तमवेहि जानीहि । प्रभुमहत्वेनैव तत्कार्यसिद्धः । सेवकगुणः कोऽपि नास्तीति भावः । “ संभावन वासनाय गौरवै ध्यानकर्मणि " इत्यजयः। अत्रेन्द्र आत्मनि च विशेषे प्रस्नुतेऽप्रस्तुतप्रभुभृत्यवचनादप्रस्तुतप्रशंसा । अनया च स्वस्य भृत्यत्वं तस्य प्रभुत्व च सूचयन्त्या विनयातिशयद्योतनादुदात्तालंकारो व्यज्यते । अरुणस्तमसां भेत्तान्धकारनाशकः किंवा कथमभविष्यत् । चेद्यदि सहस्रकिरणो रविर्युर्यग्रे नाकरिष्यदिति क्रियातिपातः । दृष्टान्तालंकारः अनुग्नासश्च । किवेति निपातसमुदायः कथमर्थे । वसन्ततिलकं वृत्तम् ।


सिध्यतीत्यपदि। । योज्याः प्रेप्यजनाः । बहुवचनेन न वहनेक एव किंतु भत्सदृश हवो देवेन्द्रस्य नियोज्याः संतोति स्वगर्वपरिहारः सूच्यते । महर्षि प्रभूणामपि कथंचत्साध्येष्वपि न तु नियोज्यजनसाधनीयेथिति यावत् । कर्मसु स्त्रदुर्दशानिस्तारकंकृत्येषु सिध्यंति फलंति अनायासेन साधका भवन्तीत्यर्थः । वर्तमानव्यपदेशेन ईश्वराण दृष्टिपथ एव न तु परोक्ष इति व्यज्यते । संभायनागुणं बहुमानविशेषमवेहि । अत्र दृष्टान्तमाह -सहस्रकिरणः स्वयमन्धकारनाशकरणसमर्थः सूत्रैः नमणमनोखें धुरि अग्रे नाकरिप्यनि चेत् नायोजयिष्यति चैत् । क्रियातिपत्तौ दृङ् । त्रिाभविष्यत् किमजनिष्यत वेश्याक्षेपप्रश्ने । सूर्यनारुणस्य धुर्यवस्थापनमेवारुणस्य तमोनिवर्तकत्वे निमित्तम् । सूर्येणारुणो धुरि न स्थापितोत्तमो निहन्तुमसमर्थं इति क्रियातिपतिः । सुखपरस्येत्यादि । पूर्वश्लोकेन मातलिना राक्षसविजयनिमित्तेन दृश्यन्ते स्तुते राज्ञ देवेन्द्रस्येदं सामर्थ्थ्मिति स्वात्मघा न कुनेत्यविकथनत्वरूपधरोदात्तत्वं व्यज्यते नदुक्तं " गंभीरो विनयेपेतः कृपा वा न विकत्थनः । धीरोदात्ताः स विज्ञेयो नायकेषु गुणान्वितः ॥’ इति । अत्र प्रियवचनं नानालंकारः तदुक्तं ‘‘ यप्रसन्न मनसा पूज्यं पूजयितुं वचः । इग्नप्रकाशनाथे तु स प्रियोक्तिरुदह्ना ॥’’ इति अत्र सिद्यम्तीत्यादौ पूज्यमिन्द्रं पूजयितुं स्वस्य सन्तोपं ख्व्यापयितुं