पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३९४ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तब शरैरधुना नतपर्वमिः पुरुषकेसारिणश्च पुरा नखैः ॥ ३ ॥

सुखेति । सुखपरस्य सुखे परः सुखपरस्तस्य । यद्वा सुखमेव परं यस्यातिसुखिनः इति विधेयम् । हरेरिन्द्रस्योभयैखिद्विं स्वर्गः । दानवाः कण्टका इव दानवकण्टकाः । उद्वता दानवकण्टका यत्र तत्कृतम् । अत्रोद्धतपदेन तेषां समूलनाशादत्यन्ताभावो ध्यन्यते । दुःखप्रभं साधम्यै गम्यम् । अनया वानयोः पुरस्तेषां जडतरत्वं ध्वन्यते उद्धृतदानवकप्टकरवात्सुखपरत्वस्य विधेयत्वे वक्तव्ये यत्तस्यार्थं विधेयत्वमुक्तं तदस्य प्राधान्यं द्योतयितुम् । काव्यलिङ्गं व्यङ्गयम् । यथा कश्चिन्मार्गमुद्रेत कण्टकं करोतयुक्तलेशः । एतेन क्लेशाभावो ध्वनितः। अथ च सुखपरस्य सिंहीविलासललसस्य हरेः सिंहस्य त्रिदिवभिच त्रिदिवं स्थानम् । यद्वा त्रिदिवं सुखं विद्यते यत्र तत् । अर्शआदित्वाच् । ‘त्रिदिवं सुखे । स्वर्गे च त्रिदिवा ( वं ) नद्याभ्’ इति हैमः । एतादृशं स्थानं मदोदकं वाति प्राप्नुवन्ति (१)। दोषोपन्यासः । कैरुभयैरित्यत आह--तवेति । अधुना नतानि पर्वाणि येषां ते नतपर्वणस्तैः । पर्वणां नतत्वं ग्रन्थिस्थरौ तद्क्षणात् । एतेन सरलवं शीघ्रगत्वं मनोहरवं च व्यनितम् । तव परमरस्य विख्यातपौरुषस्य शरैर्नान्यस्येति संबन्धस्य व्यञ्जकत्वं बोद्धव्यम् । पुरा पूर्वं च पुरुषकेसारिणो नृसिंहस्य पर्वणः सकाशात् । नतमिति भावे क्तः । नतं पर्वणो येषां (?) तैनैखेश्च । इन्द्रं प्रत्युभयस्याप्राकराणिकत्वेन नतपर्वत्वसाम्यातुल्ययोगिता । तेन नखैः शराणां नृसिंहपदेन चापस्य राज्ञ औपम्यं ध्वनितम् । उथमानुप्रासौ । ननु दानवा एवं कण्टका इति रूपकं संदेहसंकरो वास्तु कथमुपमेति चेदुच्यते । उदृतपदस्य दानवकण्टकयोः साधारष्यान्न रूपकसाधकत्वम् । किंच रूपके कष्टकानां प्राधान्यावृहदुिष्यन्तयोरनुकर्षापातात् । उपमायां तु दानवानामेव प्राधान्यातद्वाकर्षसिद्धेः । अत एव न संकरोऽपि ।


नास्तीति सूच्यते । सुखपरस्येयादे । हरेर्देवेन्द्रस्य पुरुषकेसरिणो नृसिंहस्य थधा शरेण नखेनानायासेन कंटकौद्धरणं क्रियते तद्वत्वयापि दुर्जनदानवगणविजयः छत इति यावत् । नतपर्तृभिः नतान्यनुन्नतानेि खपार्नेति यावत् पर्वाणि ग्रंथयों एषां ते तथोकः तैः । शराणां ग्रंथयो नतश्चेत् न रुजुत्वं भवतीत्यर्थः । नखानां पक्षे नतनि मग्नानि हिरण्यकशिपौरुद्र इति शेषः । पर्वाणि अंगुलिप्रन्थग्रो एषां ते तथोकाः । तैर्नखें: