पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ४०० )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


मातलिः--( सस्मितम् ) आयुष्मन्, उभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपया लधु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥११॥ ॥

सक्रियाविशेषात्सम्मानाधिक्यात् । अनुपयुक्तमिवोपयोगरहितमित्रार्थ दिन्द्रं प्रते । यन्मया। कार्यं कृतं तदिन्द्रसंमाननायाः सहस्रांशाभिति ( शेनापि ) तुलयितुं न क्षममिति सूक्ष्मालंकारः । एतेनेन्द्रस्य प्रत्युप कारश्रुत्यं विनययुक्तत्वं गुणग्राहित्वं चात्मनस्तु परमशौर्यशालित्व- मिन्द्रेण तथापूजितस्वादयन्तसौभाग्यास्पदत्वं च व्यज्यते । उभयं भवदु पकृतमेिन्द्रसत्कृतं च । त्वं स्वात्मोपकृतमेव तथा समर्थयसे । अहं पुनरुभयमपि न विद्यते परितोषो यत्रथंकनस्तदपरितोषं समर्थये । इन्द्रस्तु त्वत्कमधिकं मन्यते, त्वं त्विन्द्रकृतां पूजामधिकां मन्यस इति भावः । तदेव दर्शयाते--प्रथमेति । भवान्मरुत्वत इन्द्रस्य प्रतिपत्त्या गैर वेण पश्चात्कृतेन प्रथममुपकृतं लघु स्वल्पं मन्यते । भवतोऽवदानेन शुद्ध कर्मणा विस्मितः । ‘अवदानं शुद्धकर्म' इत्यमरः । सऽपीन्द्रः सक्रिय स्वकृतसंमानना तस्यां गुणानादरातिशयादींनथवा तया गुणान्स्वारेम न्विनयाजवादीन्न गणयति । तव कर्म स्मृत्वा मया तस्य संमा नना कृतेते चैतस्यापि तस्य नायातत्यर्थः । बहुवचनेन संमाननाधिक्यै ध्वन्यते । क्रिया चेकथं गुणा इते विरोधाभासे व्यङ्गयः शब्दशक्ति मूः । स्ववदानस्मरणेनाभंव्यक्तावस्मयस्ते विगलितवेद्यतरत्वेन किमपि न स्मरतीति भावः । तेन “ उदात्तवस्तुना संपत् इत्युदात्तालंकारः । हेतुश्चास्यनुप्रासौ । उपमेयोपमा व्यङ्गया । परस्परं क्रियाजननादन्योन्य मापि । अत्र साक्रियालक्षणे कारणे सत्यपि यद्णनळ्क्षणकार्यानुत्पात्तः सा वेशेषोक्तिः। अथ च गणनाभावलक्षणकार्योत्पत्तौ कारणाभावाद्वि


भगवतो देवेन्द्रस्य उभयोरप्यपरितपः । भवानिन्दश्चोभावप्यन्योन्यमपारितुष्यै । प्रथमोपकृतमेत्यादि । प्रथमपकृतं राक्षसजयरूपं पूर्वोपकारम् । मरुत्वतः प्रति. पस्या देवेन्द्रविषयकभया लघु अथरुपम् । सोऽपि देवेन्द्रोऽपि । भवतः अपदान विस्मितः कृतपौरुषविस्मितः। सत्क्रियागुणान् संभावनाविशेषान् न गणयति प्रत्युपकारं न विचारयति वर्तमानध्यपदेशेन देवेन्द्रस्वद्यपि सानुशय एव तिष्ठतीति व्यज्यते ।


१ उभयोः इति क० पु• पाठः । २ अपदान इति क० पु• पाठः ।