सामग्री पर जाएँ

पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४०० )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


मातलिः--( सस्मितम् ) आयुष्मन्, उ[]भयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लधु मन्यते भवान् ।
गणयत्य[]वदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥

सत्क्रियाविशेषात्सम्मानाधिक्यात् । अनुपयुक्तमिवोपयोगरहितमित्रार्थादिन्द्रं प्रति । यन्मया कार्ये कृतं तदिन्द्रसंमाननायाः सहस्रांशाभिति ( शेनापि ) तुलयितुं न क्षममिति सूक्ष्मालंकारः । एतेनेन्द्रस्य प्रत्युपकारशीलत्वं विनययुक्तत्वं गुणग्राहित्वं चात्मनस्तु परमशौर्यशालित्वमिन्द्रेण तथापूजितस्वादयन्तसौभाग्यास्पदत्वं च व्यज्यते । उभयं भवदुपकृतमेिन्द्रसत्कृतं च । त्वं स्वात्मोपकृतमेव तथा समर्थयसे । अहं पुनरुभयमपि न विद्यते परितोषो यत्रथंकनस्तदपरितोषं समर्थये । इन्द्रस्तु त्वत्कमधिकं मन्यते, त्वं त्विन्द्रकृतां पूजामधिकां मन्यस इति भावः । तदेव दर्शयाते--प्रथमेति । भवान्मरुत्वत इन्द्रस्य प्रतिपत्त्या गौरवेण पश्चात्कृतेन प्रथममुपकृतं लघु स्वल्पं मन्यते । भवतोऽवदानेन शुद्धकर्मणा विस्मितः । ‘अवदानं शुद्धकर्म' इत्यमरः । सोऽपीन्द्रः सत्क्रिया स्वकृतसंमानना तस्यां गुणानादरातिशयादींनथवा तया गुणान्स्वास्मिन्विनयाजवादीन्न गणयति । तव कर्म स्मृत्वा मया तस्य संमानना कृतेते चैतस्यापि तस्य नायातत्यर्थः । बहुवचनेन संमाननाधिक्यै ध्वन्यते । क्रिया चेत्कथं गुणा इति विरोधाभासो व्यङ्गयः शब्दशक्तिमूलः । त्वदानस्मरणेनाभंव्यक्तावस्मयस्ते विगलितवेद्यतरत्वेन किमपि न स्मरतीति भावः । तेन “ उदात्तवस्तुना संपत् इत्युदात्तालंकारः । हेतुश्चास्यनुप्रासौ । उपमेयोपमा व्यङ्गया । परस्परं क्रियाजननादन्योन्यमापि । अत्र च साक्रियालक्षणे कारणे सत्यपि यद्णनळ्क्षणकार्यानुत्पात्तिः सा विशेषोक्तिः। अथ च गणनाभावलक्षणकार्योत्पत्तौ कारणाभावाद्वि


भगवतो देवेन्द्रस्य उभयोरप्यपरितपः । भवानिन्दश्चोभावप्यन्योन्यमपारितुष्यै । प्रथमोपकृतमेत्यादि । प्रथभोपकृतं राक्षसजयरूपं पूर्वोपकारम् । मरुत्वतः प्रतिपस्या देवेन्द्रविषयकभया लघु अत्यल्पम् । सोऽपि देवेन्द्रोऽपि । भवतः अपदानविस्मितः कृतपौरुषविस्मितः। सत्क्रियागुणान् संभावनाविशेषान् न गणयति प्रत्युपकारं न विचारयति वर्तमानध्यपदेशेन देवेन्द्रस्वद्यपि सानुशय एव तिष्ठतीति व्यज्यते ।


  1. उभयोः इति क० पु० पाठः ।
  2. अपदान इति क० पु० पाठः ।