पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( २५ )
टीकाद्वयसहितम्।


दृश्यन्ते व्यवहाराः कथंचन ॥ वाञ्छाकलापस्तु कवेरभीष्टार्थप्रकाशनम् । स्वाभिधेयगतत्वेन सा द्विधा परिपठ्यते । स्वगतं तु स्वगोत्रदिस्वीयकीर्ति प्रकाशनम् । अभिधेयगतं यत्तत्काव्यनाम्ना प्रकाशनम् ॥’ इति [दश रूपकेषु केन रूपकेणेत्याशङ्कायामाह- नाटकेनेति । तल्लक्षणमुक्तं


वस्तुनि नाटके कस्यापि दिदृक्षा नास्तीत्यत आह - नखेनेति नवेन अपूर्वेण एतादृशसकलकलाभिज्ञपरिषिन्मेलनाभावात् प्रयोगसमर्थाभावाच्च केनापि न प्रयुक्तेनेति यावत् । अनेन सभ्यानां दिदृक्षाकुतूहलस्यातिशय हेतुरुतः । नाटकस्य नवत्वविशेषणेन पूर्वप्रयोगाभावादतिसावधानेन भवितव्यमिति ज्ञाप्यते । तर्हि नवत्वेऽपि प्रसिद्धप्रौढकविरचनया भवितव्यम्। तत्र विचित्रजगद्विलक्षणविदग्धनायिकानायकविषयसुलिष्टकृतिव्यापारवैचित्र्यादिसंविधान चातुर्यमस्तीत्यत आह - कालिदासप्रथितवस्तुनोति ॥ कालिदासेन महाकवींद्रेण ग्रथितं गुम्फितं वस्तुधीरोदात्तादिनायकचरितं कथेति यावत् । यत्र तत्तथोक्तम् ॥ तदुक्तम्- “इतिवृत्तकथावस्तुशन्दाः पर्यायवाचिनः" इति । भावप्रकाशेऽप्युक्तं- वस्तु तत्स्यात्प्रबन्धस्य शरीरं कविकल्पितम् । इतिवृत्तं तदेवाहुर्नाट्याभिनयकोविदाः॥ इति । अत्र कालिदास इति निरुपपदेन पदेन प्रसिद्धिरेव स्वस्य माहात्म्यं गमयति केवलवाग्विजृम्भणेन किं प्रयोजनं समस्तपाण्डित्यस्य स्वनाटकमेव प्रमाणमिति ध्वन्यते । स्वाभिधात्यमानध्वन्यनुप्राणितनाटकनिर्माणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशः स्फुटीभविष्यतीति भावः प्रसिद्धस्य गुणवर्णनं न कर्तव्यमिति भावः । यथा वा प्राक्तनालंकारिकैः कालिदासादीनामिव यश इति प्रसिद्धिरुक्ता तेनेतरकविभ्यः कालिदासस्य वैशिष्ट्यमुक्तं भवति वैशिष्ट्यं च तत्प्रतिपादितानां काव्यानां वेदत्वप्रमाणभूतत्वम् । तच्च मीमांसाप्रवर्तकैर्भट्टाचार्यपादैः प्रतिपादितम् यथा - "कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते परमाणौ च पदार्थत्वं व्यवसितम् ॥" इति । 'संहृत्य लोकान्पुरुषोऽधिशेते' इत्यादिकालिदासवाक्यान्यप्याचार्यपादैः प्रमाणत्वेन मीमांसायां निदर्शितानि । प्राक्तनैरालंकारिकैरप्युक्तम् - "तस्मादालोचिताशेषलोकशास्त्रेण धीमता । कर्तर्यं कालिदासादेः काव्यानां परिशीलनम् ॥" इति । एतदभिप्रायेण कालिदास इति निरुपपदं प्रयुक्तमित्यवगन्तव्यम् । अनेन चतुर्णां कवीनां मध्ये कालिदासस्योदात्तत्वमुक्तमित्यवगम्यते । तदुक्तं - “कवयस्तु प्रबन्धारस्ते भवेयुश्चतुर्विधाः। उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥ अन्तर्गूढाभिमानोक्तिरुदात्त इति गीयते ।" प्रकृतं कालिदास कालिदास इति निरुपपदप्रयोगेण गुप्तहुंकारभणित्योदात्तात्वं सूचितम् । “परापवादात्स्वोत्कर्षवादी तूद्धत उच्यते ।" यथा वा मदीये नैषधानन्दे - "बाढं सन्ति महीतले सुकवयस्तत्राप्यसौ गण्यते मुख्यो वेंकटनाथपूजनपरः श्रीश्रीनिवासः कविः ॥ ते मासाः कुसुमाकरा अपि मधुः पुष्पाकरो भण्यते ये जाता मलये न ते मलयजः सा तु प्रथा चन्दने ॥" अत्र स्वस्य सुकवित्वपारिकल्पितनिज -