सामग्री पर जाएँ

पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ

महाकवेः श्रीकालिदासस्य चारितम् ।

 तत्रादौ महाकवेः श्रीकालिदासस्य प्रादुर्भावावसरस्तावनिर्णीयते । संक्षिप्तश्चयं विस्तरशः अपाशास्रिणः प्रणीते महाकविः श्रीकालिदास इति श७ प्रबन्धे द्रष्टव्यः ।

 ( १ ) तत्र केचिदर्वाचीना वैज्ञानिकम्मन्या महाकविप्रकांडममुं सप्तमशताञ्घां प्रादुर्भूतं मन्यन्ते । ( २ ) अपरे तु ‘ धन्वन्तरिक्षपणकामरासंहशंकुवेतालभट्टघटखर्परकालिदासाः । वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥ " इति ज्योतिर्विदाभरणीयपद्यानुसारेण नवरस्नान्तर्गततया वराहमिहिरसमानकालिकत्वं श्रीमतः कालिदासस्य सुस्पष्टम् । ततश्च षष्टशतकोद्भूतत्वमर्थादेव संसिद्धमित्याहुः । ( ३ ) अपरे त्बाहुः श्रीमान्मातृगुप्ताचार्यं एव कालिदासापरनामा । मात्रा कार्या गुप्तो दासत्वाद्रक्षित इति व्युत्पत्तेः। स च षष्ठशताब्द्यां ( स्वि० ) समुद्धृत इत्ययमेव कालिदासाबस्थितिसमय इति । ( ४ ) अन्येतु ‘‘ दिङ्गानां पथि पारहरन् स्थूळ्हस्तावलेपान् " इति मेघदूते कालिदासेन दिङ्नागाचार्यस्य घ्वननादिङ्नागस्य च षष्टशताब्दीसमुद्भतत्वात्तस्य च कालिदासप्रतिभटतया प्रासैद्धत्वात्कालिदासस्यापि रिब्रस्तीयषष्ठशताद्वीसमुद्रेतत्वमेवोति चदन्ति । ( ५ ) तदितरे तु " तत्र हूणाविरोधानां भर्तृष्ट व्यक्तृविक्रमम् । कपोलपाटछादेशि बभूव रघुचेष्टितम् ॥ ( ४|६६ )" इति रघुवंशे कालिदासेन रधुकर्तृकस्य हूणविजयस्याभिधानाङ्कणानां च पंचमशताब्द्युत्तरमेव भारतवर्षे प्रशाद्विक्रमातिशयशाब्यािच्च तानेव रघोः प्रतिभटपक्षे क्षिपतः कालिदासस्यार्थादेव ततः परभात्रित्वामित्याचक्षते । ( ६ ) केचित्तु कुमारसंभवे "तिथौ च जामित्रगुणान्वितायाम् । ( ७-१ )" इति पघे कालिदासेन जामित्रपदमुपनिबद्धम् । तच्च ग्राकिभाषावार्त्तिनो डायमेन् ( Daymettan ) शब्दस्यापभ्रंशः । यदा ग्रीकेभ्योऽधिगतं ज्योतिःशास्त्रं भारतवर्षीयैस्तदैव संस्कृतभाषायां प्रविष्टोऽयं शब्दः । यैश्च ग्रीकेभ्यो ज्यौतिषमधिगतं तेषु भारतवर्षीयपंडितेषु श्रीमानार्यभट्ट एव प्रथमः । स च खिस्तयपंचमश-