पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३८५ )
टीकाद्वयसहितम्।


( प्रविश्य पत्रहस्ता )

 प्रतीहारी--जेदु जेदु देवो [ जयतु जयतु देवः ]

 राजा-वेत्रवति, न खल्वन्तरा दृष्टा त्वया देवी ।

 प्रतीहारी--अह इं । पत्तहत्थं मं देखिञ पडिणिउत्ता । [ अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ]

 राजा--कार्यज्ञा कार्योपरोधं मे परिहरति ।

 प्रतीहारी–देव, अमच्चो वेण्णवेदि । अत्थजादस्स गणणा- बहुलदाए एक्कं एव्व पोरकज्जं अवेक्खिदं तं देवो पत्तारूढं पञ्चक्खी करेदु त्ति । [ देव, अमात्यो विज्ञापयति । अर्थजातस्य गणना- बहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति]

 राजा—इतः पत्रिकां दर्शय ।

( प्रतीहार्युपनयाति )

 राजा-( अनुवाच्य ) कथम् । समुद्रव्यवहारी सार्थवाहो धन- मित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी । राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । कष्टं खल्वन- पत्यता । बहुधनत्वद्धहुपत्नीकेन तत्रभवता भवितव्यम् । विचा- र्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् ।


जयतु जयतु देवः । अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । देव, अभात्यो विज्ञापयति । अर्थजातस्य द्रव्यसमूहस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति । नौध्यसने पोतभ्रंशे ।


शब्दापय आह्वेयेत्यर्थः । मेघप्रतिच्छन्द इति तस्य प्रासादस्य नाम ।


१ अज्ज ( अद्य ) इत्यधिकं क्व० पु० । २ पच्चवेक्खिदं तं दाव ( प्रत्यवेक्षितं

तत्तावत् ) इति क्व० पु० पाठः । ३ दर्शयति इति क्व० पु० पाठः ।

४ नौध्यसनेन इति क्व० पु० पाठ: । ५ वेत्रवति महाधनत्वात् इति

क्व० पु० पाठः । ६ अपि तस्य भार्या इति क्व० पु० पाठः ।