पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३७९ )
टीकाद्वयसहितम्।


 राजा--युज्यते । अयि भोः कुसुमलताप्रियातेिथे, क्रिमत्र१ । परिपतनखेदमनुभवसि । ।

 एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
 प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥१९॥

 सानुमती-अज्ज अभिजादं क्खु एसो वारिदो। [ अद्याभि- जातं खल्वेष वारितः ॥

 विदूषकः--पडिसिद्धा वि वामा एसा जादी । [ प्रतिषिद्धापि वामैषा जातिः ।


यातेि--युज्यत इति । कुसुमग्रहणं लतायां ( याः) सद्भावसूचनार्थम् । कुसुमयुक्ता लता कुसुमलतेति मध्यमपदलोपी समासः। तस्या अपि प्रियोऽतिथिर्न तु यः कश्चिदतिथिस्तस्य संबोधनम् ? यत्र तु सा तादृशी लता तत्र परिपतनमुचितम् । अनुसतिनात्र नातिथित्वं सुतरां न प्रिंयाति- थित्वम् (?) परिपतनरूप एव खेदस्तमनुभवसि, न तु मधुलवलाभोऽपीतेि भावः । चित्रलिखितायां तत्पुष्पे भ्रमर्यपि लिखिता तामुद्दिश्यैषेत्युक्तिः ? एषेति । कुसुमनिषण्णेत्यनेन तवायत्नसाध्यं स्थानामिति भावः । अनु- रक्तेत्यनेन तव तत्रोचितं गमनमितेि ध्वन्यते । तृषिताभिलाषवत्यपि मधुकरी स्वाभाव्यात्सती विद्यमानपतिव्रता च मधुकरी भवन्तं प्रतिपालयतीति प्रेमा- तिशयः । त्वया विना मधु न पिबतेि । अत्र चित्रन्यस्तायाः स्वाभाविकस्य पानाभावस्य त्वया विनेति कृत्रिमस्य वाभेदाध्यवसायादतिशयोक्ति:। अथवा माधवीलतायां तादृशीं मधुकरी दृष्ट्वैषेत्युक्ति: । अत्र तृषितत्वं कुसुमोप- र्युपवेशनादेव । नायिकानायकव्यवहारसमारोपात्समासोक्तिः । सती पतिव्रता मधुकरीति भिन्नरूपेण एकदेशविवर्तिरूपकमपि। मधुमघ्विति छेकवृत्त्यनुप्रासाः। अद्याधुनाभिजातं न्याय्ये यथा स्यादेवं खल्वेष वारितः। ' अभिजातः स्मृतो न्याय्ये ' इति विश्वः । प्रतिषिद्धापि वामैषा जातिरिति


शसंमर्दनानर्हप्रदेशे अर्पितं न्यस्तं बंधनं कृतम् । वाशब्दः समुच्चये । एषेत्यादि । तृषिता पिपासितापि । खलु यतः कारणात् । मधुमकरन्दं त्वया विना न पिबति । ततः प्रतिपालयति । तृषितायाः प्रतिपालनं युक्तं न भवति तत्रैव गच्छेति भावः


१ किमित: इति क्क० पु० पाठः ।