पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३७५ )
टीकाद्वयसहितम्।


 विदूषकः--( आत्मगतम् ) एसो अत्तभवं णदिं अदिक्कमिअ१ मिअतिरण्हिआं संकन्तो । ( प्रकाशम् ) भो, अवरं किं एत्थ लिहेि दव्वं । [ एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । २भोः अपरं किमत्र लिखितव्यम् |

 सानुमती-३जो जो पदेसो सहीए मे अहिरूवो४ तं तं आलिहि दुकामो भवे । [ यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितु कामो भवेत् ।

 राजा-श्रूयताम् ।

 कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
  पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः।
 शाखालम्बितवल्कलस्य च तरोर्निमोतुमिच्छाम्यधः
  शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ १७ ॥ ॥


त्यक्तस्य पुनरुपादाने महापुरुषस्यानौचित्यप्रसङ्गात् । पुनरनन्तरं चित्रा- र्पितां लिखितामिमां पुरतो दृश्यमानां बहुमन्यमान आदरेणावलोक- मानः । पथि मार्गे निकामजलां संपूर्णोदकां स्रोतोवहां नदीम् । अथ च यतो निकामजलामतः स्रोतोवहां प्रवहद्रूपामितेि च योज्यम् । अती त्यातिक्रम्य मृगतृष्णिकायां मरुमरीचिकायां प्रणयवान्प्रीतियुक्तो जातः। हेतुनिदर्शना । श्रुतिवृत्त्यनुप्रासाः । मुपमपेति मन्यमान इति छेकानुप्रा सोऽपि । अपहाय बहुमन्यमान इत्यनयोर्निर्हेतुकत्वं नाशङ्कनीयम् । शापस्य तन्मोक्षेण विरहस्य प्रकरणलभ्यत्वात् । वसन्ततिलका वृत्तम् । एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । अयमेतस्याः कथं निवर्तनीयो भविष्यतीत्याशयः । पूर्वमुन्मत्तानां पन्था अनेन गृहीत इत्युक्तेः । भोः, अपरं किमत्र लिखितव्यम् । यो यः प्रदेशः सख्याः संबन्धी मेऽभिरूपः सुन्दरस्तं तमालिखितुकामो भवेत् । कार्येति । मनोरथसमुचितविषयभूताम् । इदं चित्रफलके स्रोतोवहां नदीम् । प्रणयवान् वाच्ञावान् । कार्येत्यादि । सैकतलीनहंसमिथुना संकतेषु विविधक्रीडोचितपुलिनेषु लीनानि क्रीडाय


१ सच्चं ( सत्यं ) इत्यधिकं क्व० पु० । २ वअस्स ( वयस्य ) इत्यधिकं क्व° पु° । ३ असंसअं ( असंशयं ) इत्यधिकं क्व० पु० । ४ अहिरुइदो ( अभिरुचितः ) इति क्व० पु० पाठः ।