पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३७० )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 विदूषकः-( आत्मगतम् ) केहं बुभुक्खाए खादिदव्वो ह्मि । [ कथं बुभुक्षया खादितव्योऽस्मि |

 राजा-प्रिये ! अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्य तामयं जनः पुनर्दर्शनेन ।


करणं तेन तव दृश्यमेव प्रयोजनं तत्करस्थमपि दृश्यमेव स्थितं सद्यदम्भसि नितरां मग्नमदृश्यत्वं गतमिति कथम् । एवं तत्करत्यागस्तत्राप्यादृ१पत्वग- मनमित्युपालम्भद्वयम् । अत्र चेतनव्यवहारारोपात्समासोक्तिः । सा च गुरुत्वात्स्वाभाविको जलपातस्तत्कर्तृत्वेनोच्यत इति स्वाभाविककृत्रिम- योरभेदाध्यवसायादतिशयोक्तिगर्भा । अथवेति वृत्ताक्षेपालंकारः । नामेति प्रसिद्धौ । अचेतनं कर्तुगुणं सौन्दर्यादिकं प्रेमादिकं च न लक्षयेदित्य र्थान्तरन्यासः । त्वया त्वचेतनत्वादिकं कृतं मया तु सचेतनेनाप्यत्यनु- चितकारिणा त्वां प्रति किं वक्तव्यम् । मयैवेत्येवशब्दार्थः । कस्मात् । अकारणकमित्यर्थः। स्त्रीमात्रं न भवत्यपि तु प्रिया । अवधीरिता तिर- स्कृता न तु यक्ता । त्यक्तायाः पुनरुपादाने महापुरुषस्यानौचित्यप्रसङ्गात् । अवधीरणाकारणाभावे तदुत्पत्तेर्विभावना । श्रुत्यनुप्रासवृत्यनुप्रासयोः संकरः । वंशस्थं वृत्तम् । कथं बुभुक्षया खादितव्योऽस्मि । असावु न्मत्तः, अत एव विषयान्तरसंचाराभावान्मया भोजनार्थं गन्तुमशक्यमितेि भावः । अथ चाहं यथा बुभुक्षया भक्षितव्यस्तथायमपि तया भक्षितव्य [ इत्यय ] मप्यर्थः । प्रकरणवलाद्बुभुक्षेति स्त्रीलिङ्गनिर्देशाच्च । कस्माद- वधीरिता प्रियेयत्र प्रियास्मरणात्संकल्पोपनीतां प्रत्याह--अकारणेति । अकारणं कारणराहित्येन यः परित्यागस्तेनानुशयः पश्चात्तापस्तेन तप्तं हृदयं यत्य सः । अत्र परित्यागश्चेत्कथं कारणाभावः । कारणाभावश्चे- कथं परित्याग इति विरोधो नाशङ्कनीयः । अत्र कारणशब्देन प्रसिद्धं


अचेतननामर्थं न लक्षये " इति पाठान्तरम्। आ इत्यादि । आः इति पीडायां निपातः । बुभुक्षया शकुन्तलां प्रति रिरंसया राज्ञ इति शेषः । अहं खलु अहमेत्र खादितव्यः भोक्तव्यः । शकुन्तला दुर्लभा निकटेऽन्यः कोऽपि न विद्यते शकुन्तला-


१ आः अहं छं ( आः अहं खलु ) इति क० पु• पाठः ।