पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६८ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


एकैकमत्र दिवसे दिवसे मदीयं
नामाक्षरं गणय गच्छति यावदन्तम् ।
तावत्प्रिये मदवरोधगृहप्रवेशं
नेता जनस्तव समीपमुपैष्यतीति ॥ १२ ॥

तच्च दारुणोत्मना मया मोहान्ननुष्ठितम् ।

 सानुमती-रमणीओ क्खु अवही विहिणा विसंवादिदो ? [ रमणीयः खल्ववधिर्विधिना विसंवादितः ]

 विदूषक-—कैहं धीवलकप्पिअस्स लोहिअमच्छस्स उदलब्भन्तले आसि। [कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् ।

 राजा-शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्भङ्गास्त्रोतसि परिभ्रष्टम् ।

 विदूषकः-जुज्जइ । [ युज्यते ।

 सानुमती--अदो एव्व तवस्सिणीए सउन्दलाए अधम्मभीरुणो इमस्स राएसिणो परिणए सन्देहो आसि । अहवा ईदिसो अणु-


स्यात् ’ इति धरणिः । एकैकमिति । अत्र मुद्रिकायां दिवसे दिवसे मदीयमेकैकं नामाक्षरं गणय । यावत्तद्गणनमन्तं गच्छति । यावद्गणनस- माप्तिरित्यर्थः । त्रिचतुरैर्दिनैरिति भावः । हे प्रिये, ममावरोधहमन्तःपुरं तत्र प्रवेशस्तं नेता प्रापयिता जनस्तव समीपमुपैप्यतीति मयापि प्रत्यभि हितेति संबन्धः । छेकवृत्यनुप्रासौ काव्यलिङ्गं च । वसन्ततिलकं वृत्तम् । मया विस्मृततादृशस्नेहदुर्जनधुरंधरेणेत्यादि व्यज्यते । दारुणात्मनेति तादृ शव्यङ्गयावकाशदानाय । रमणीयः खल्ववर्धिवधिना दैवेन शापलक्षणेन च विसंवादितः । कथं धीवरकल्पितस्य कैवर्तखाण्डितस्य रोहितमत्स्यस्यो- दराभ्यन्तर आसीत् । शचीतीर्थमिति गङ्गायां शक्रावतारापरपर्यायस्तीर्थ विशेष उच्यते । युज्यते । अत एवांगुलीयकादर्शनादेव तपस्विन्या अनुकम्पा


त्यर्थः । आकारैितः आहूतः श्रेरित इत्यर्थः । प्रतिपतिं प्राप्तिम् । एकैकमित्यादि ।


१ दारुणेन महान्मया इति क० पु० पाठः । २ अह कहं धीवलखंडिअस्स ( अथ कथं धवरखंडितस्य ) इति क० पु० पाठः 1 ३ तद ( ततः ) इति क० पु० पाठः । ४ पारंणअ ( परिणय ) इति क० यु० पाटः ।